________________
15
७३२ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रतिबद्भशय्याप्र० सू० ३०
पुरिसा य भुत्तभोगी, अभुत्तभोगी य केइ निक्खंता ।
कोऊहल-सइकरणुब्भवेहिँ दोसेहिमं कुजा ॥ २६०२ ॥ ते पुनः संयतपुरुषा द्विविधाः---केचिद् भुक्तभोगिनः केचित्त्वभुक्तभोगिनो निष्क्रान्ताः । ते च तत्रोपाश्रये स्मृतिकरण-कौतूहलोद्भवा दोषा ये उत्पद्यन्ते तैरिदं कुर्युः ॥ २६०२ ॥
पडिगमणमन्नतिथिग, सिद्धी संजइ सलिंग हत्थे य ।
अद्धाण-वास-सावय-तेणेसु व भावपडिबद्धे ।। २६०३॥ प्रतिगमनं नाम-ते साधवो भूयोऽपि गृहवासं गच्छेयुः, यद्वा कश्चित् पार्श्वस्थादिभ्यः समागतः स तेप्वेव व्रजेत् , अन्यतीर्थिकेपु वा गच्छेत् , सिद्धपुत्रिकां वा संयती वा स्खलिङ्गस्थितः
प्रतिसेवेत, हस्तकर्म वा कुर्यात् । यत एते दोषा अतो न भावप्रतिबद्धे स्थातव्यम् । भवेद्वा 10 कारणं येन तत्रापि स्थातव्यं भवति । किं पुनस्तत् ? इत्याह-"अद्धाण" इत्यादि । अध्वप्रति
पन्नास्ते साधवः, न चान्यां वसतिं लभन्ते, वर्ष वा निरन्तरं पतति, श्वापदाः स्तेनी वा ग्रामादेर्वहिरुपद्रवन्ति । एतैः कारणभावप्रतिबद्धेऽप्युपाश्रये तिष्ठन्ति ॥ २६०३ ॥ __ एतदेव व्याचष्टे
विहनिग्गया उ जइउं, रुक्खे जोइ पडिबद्ध उस्सा वा ।
ठायति अह उवासं, सावय-तेणादओ भावे ॥ २६०४॥ विहम्-अध्वा, ततो निर्गतास्तं प्रतिपन्ना वा त्रिकृत्वः शुद्धाया वसतेरन्वेषणे यतित्वा यदि न लभन्ते ततो वृक्षस्याधस्ताद्वा ज्योतिर्युतायां वा द्रव्यप्रतिबद्धायां वा वसतौ तिष्ठन्ति । "अह उ" त्ति अथ पुनर्वृक्षस्याधस्तादवश्यायो वा वर्ष वा निपतति श्वापद-स्तेनादयो वा तत्रोपद्रवन्ति ततो भावप्रतिबद्धायां वसतौ वसन्ति ॥ २६०४ ॥ तत्र चेयं यतना
__ भावम्मि ठायमाणा, पढमं ठायंति रूवपडिबद्धे ।
तहियं कडग चिलिमिली, तस्सऽसती ठंति पासवणे ॥ २६०५॥ भावप्रतिबद्धे उपाश्रये तिष्ठन्तः प्रथमं रूपप्रतिबद्धे तिष्ठन्ति । तत्र चापान्तराले कटकं चिलिमिलिकां वा प्रयच्छन्ति । 'तस्य' रूपप्रतिबद्धस्याभावे प्रश्रवणप्रतिबद्धेऽपि तिष्ठन्ति । तत्रापि कायिकी मात्रके व्युत्सृज्यान्यत्र परिष्ठापयन्ति ॥ २६०५॥
असई य मत्तगस्सा, निसिरणभूमीइ वा वि असईए ।
वंदेण बोलकरणं, तासिं वेलं च वर्जिति ॥ २६०६ ॥ मात्रकस्य 'असति' अभावेऽन्यस्या वा कायिकीनिसर्जनभूमेरभावे 'वृन्देन' त्रिचतुःप्रभृतिसाधुसमूहेन महता शब्देन बोलं कुर्वन्तस्तस्यामेव कायिकीभूमौ प्रविशन्ति । 'तासां च' अगा
रीणां कायिकीव्युत्सर्जनवेलां वर्जयन्ति ॥ २६०६ ॥ 30 प्रश्रवणप्रतिबद्धस्याभावे शब्दप्रतिबद्धेऽपि तिष्ठन्ति, तत्र
१°नादयो ग्रा भा० विना ॥ २ ततो वृक्षप्रतिवद्धायां ज्योति प्रतिवद्धायां वा वसतौ तिष्ठन्ति । तस्याभावे ग्रामादेवहिवृक्षस्याधस्तात् “उस्सा बत्ति अभावकाशे वा तिष्ठन्ति। अथ तत्र वर्षोदकं निपतति भा० ॥
३°सर्गभू भा० ॥
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org