________________
७२९
भाष्यगाथाः २५८७-९४] प्रथम उद्देशः । सूत्रेऽर्थे वा रात्रौ शङ्कितं भवति तस्य चिह्नम्-अभिज्ञानकरणम् , यथा अमुकस्मिन्नों श्रुतस्कन्धेऽध्ययने उद्देशके वा इदं शङ्कितमस्तीति, तत् सर्वं दिवा प्रश्नयित्वा निःशङ्कितं कुर्वन्ति ॥ २५९० ॥ तथा
जंणरहिए वुजाणे, जयणा भासाएँ किमुय पडिबद्धे ।
ढड्डरसरऽणुप्पेहा, न य संघाडेण वेरत्ती ॥ २५९१ ॥ यदि तावज्जनरहितेऽप्युद्याने वसतां रात्रौ भाषायां यतना ‘मा चतुष्पद-पक्षि-सरीसृपादयो जन्तवो विबुध्यन्ताम्' इति कृत्वा, ततः किं पुनः द्रव्यप्रतिबद्ध प्रतिश्रये !, तत्र सुतरां यतना कर्त्तव्येति भावः । यस्तु 'ढड्डरवरः' बृहता शब्देन भाषणशीलः स वैरात्रिकं खाध्यायमनुप्रेक्षया करोति, मनसेवेत्यर्थः । येऽपि च साधवो न ढड्डरखरास्तेऽपि सङ्घाटकेन न परिवर्तयन्ति किन्तु पृथक् पृथगिति ॥ २५९१ ॥
10 गतः प्रथमो भङ्गः । अथ द्वितीयभङ्गं भावतः प्रतिबद्धो न द्रव्यत इत्येवंलक्षणं निरूपयति
भावम्मि उ पडिबद्धे, चउरो गुरुगा य दोस आणादी।
ते वि य पुरिसा दुविहा, भुत्तभोगी अभुत्ता य ॥ २५९२॥ 'भावे' भावतः प्रतिबद्ध प्रतिश्रये तिष्ठतां चतुर्गुरुकाः आज्ञादयश्च दोषाः । ये पुनस्ते भावप्रतिबद्धे वसन्ति ते पुरुषाः' साधवो द्विविधाः-केचिद् 'भुक्तभोगिमः' ये स्त्रीभोमाम् 15 भुक्त्वा प्रव्रजिताः, केचित्तु 'अभुक्तभोगिनः' कुमारप्रव्रजिताः । एषा पुरातना माथा ॥२५९२॥ अथास्या एव व्याख्यानमाह
भावम्मि उ पडिबद्धे, पनरससु पदेसु चउगुरू होति । ___ एक्केकाउ पयाओ, हवंति आणाइणो दोसा ॥ २५९३ ॥ भावप्रतिबद्धे चतुर्भिः प्रश्रवणादिभिः पदैः षोडश भङ्गाः कर्तव्याः । तद्यथा---प्रश्रवणपति- 20 बद्धः स्थानप्रतिबद्धो रूपप्रतिबद्धः शब्दप्रतिबद्धश्च १ प्रश्रवणप्रतिबद्धः स्थानप्रतिबद्धो रूपप्रतिबद्धो न शब्दप्रतिबद्धः २ इत्यादि । अत्र प्रथमभङ्गादारभ्य पञ्चदशसु 'पदेषु' भङ्गेषु चतुर्गुरवः प्रायश्चित्तम् । आदेशान्तरेण वा प्रथमे भने चत्वारश्चतुर्गुरवः, चतुर्णामपि पदानां तबाशुद्धत्वात्। द्वितीये भङ्गे त्रयश्चतुर्गुरवः, त्रयाणां पदानां तत्राशुद्धत्वात् । एवमनया दिशा यत्र भने यान्ति पदान्यविशुद्धानि तत्र तावन्तश्चतुर्गुरवः । एकैकस्साच ‘पदाद्' भङ्गकादाज्ञादयो दोषा 2 भवन्ति, यस्तु षोडशो भङ्गः स चतुर्वपि पदेषु शुद्ध इति न तत्र प्रायश्चित्तम् ॥ २५९३ ॥ प्रश्रवणादीनामेवान्योऽन्यं सम्भवमाह
ठाणे नियमा रूवं, भासासद्दो य भूसणे भइओ।
काइय ठाणं नत्थी, सद्दे रूवे य भय सेसे ॥ २५९४ ॥ यत्र साधूनां स्त्रीणां चैकमेवोपवेशनस्थानं तत्र नियमात् परस्परं रूपमवलोक्यते भाषाशब्दच 30 १ विजणम्मि वि उज्जाणे इति विशेषचूर्णौ पाठः ॥ २°क्षयैव करोति । येऽपि भा०॥
३°बद्ध उपाश्रये भा०॥ ४ "भावम्मि उ० गाहा पुरातना। अस्या व्याख्या-भावम्मि उ० गाहा ।" इति विशेषानो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org