SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ७२८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रतिबद्धशय्याप्र० सू० ३० धिकीप्रभृतिना संशब्देन विबुद्धेषु गृहस्थेष्वधिकरणं भवति । अथाधिकरणभयान्निस्सञ्चारास्तृष्णीकाश्चासते ततः सूत्रार्थपरिहाणिः ॥ २५८६ ॥ अथाधिकरणपदं व्याख्यानयति आउ जोवण वणिए, अगणि कुडुंबी कुकम्म कुम्मरिए । तेणे मालागारे, उब्भामग पंथिए जंते ॥ २५८७ ॥ अस्या व्याख्या प्राग्वत् (गा० २५६०)॥ २५८७ ॥ अथाधिकरणभयात् तूष्णीकास्तिष्ठन्ति तत एते दोषाः आसज्ज निसीही वा, सज्झाय न करिति मा हु बुझिजा । तेणासंका लग्गण, संजम आयाएँ भाणादी ॥ २५८८ ॥ मा गृहस्था विबुध्यन्तामिति कृत्वा “आसज" इति शब्दं नोच्चरन्ति मासलघु । नैषेधिकी. 10 मावश्यिकी वा न कुर्वन्ति पञ्च रात्रिन्दिवानि । खाध्याये सूत्रपौरुषीं न कुर्वन्ति मासलघु । अर्थपौरुषीं न कुर्वन्ति मासगुरु । सूत्रं नाशयन्ति चतुर्लघु । अर्थ नाशयन्ति चतुर्गुरु । एतेन सूत्रपरिहाणिरिति पदं व्याख्यातम् । तथा साधूनामावश्यिकीशब्दं पदनिपातशब्दं वा श्रुत्वा ते गृहस्थाः स्तेनोऽयमित्याशङ्कया साधुना समं युद्धाय लगेयुः । ततश्च युध्यमानयोः संयमात्मभाजनानां विराधनादयो दोषाः । यत एवमतो द्रव्यप्रतिबद्धायां वसतौ न स्थातव्यं । द्वितीयपदे 15 तिष्ठेयुरपि ॥ २५८८ ॥ । कथम् ? इत्यत आह-~ अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । गीयस्था जयणाए, वसंति तो दव्वपडिबद्धे ॥ २५८९ ॥ __ अध्वनिर्गतादयः 'त्रिकृत्वः' त्रीन् वारान् द्रव्यतो भावतोऽपि चाप्रतिबद्धमुपाश्रयं मार्गयित्वा यदि न लभन्ते ततो गीतार्था यतनया द्रव्यप्रतिबद्धे उपाश्रये वसन्ति ॥२५८९॥ यतनामेवाह20 आपुच्छण आवासिय, असिज्ज निसीहिया य जयणाए । वेरत्ती आवासग, जो जाहे. चिंधण दुगम्मि ॥ २५९० ॥ यदा कोऽपि साधुः कायिकीभूमौ गन्तुमिच्छति तदा द्वितीयं साधुमापृच्छय निर्गच्छति, स च द्वितीयः पृष्टमात्र एवोत्थाय दण्डकहस्तो द्वारे तिष्ठति यावदसौ प्रत्यागच्छति, एषा आप्रच्छनयतना । आवश्यिकीमासाद्यशब्द नैषेधिकी च यतनया यथा गृहस्था न शृण्वन्ति तथा 25 कुर्वन्ति । वैरात्रिकवेलायामपि यः पूर्वमुत्थितस्तेन द्वितीयः साधुर्यतनया हस्तेन स्पृष्ट्वा प्रतिबोधयितव्यः, स च स्पृष्टमात्र एव तृष्णीम्भावेनोत्तिष्ठति, ततो द्वावपि कालभूमौ गत्वा वैरात्रिकं कालं यतनया गृहीतः यथा पार्श्वस्थितोऽपि न शृणोति । आवश्यकं यो यदा यत्र स्थितो विबुध्यते स तदा तत्र स्थित एव करोति, वन्दनकं स्तुतीश्च हृदयेनैव प्रयच्छन्ति, यद्वा यदा ते गृहस्थाः प्रभाते खयमेवोत्थिताः तदाऽऽवश्यकं कुर्वन्ति । "चिंधण दुगम्मि" ति परावर्त्तयतां यत्र १त. डे० मो० ले. विनाऽन्यत्र-श्व संय भा० । °श्व तैः समं युद्यमानस्य संय कां० ॥ २ त० डे० मो० ले० विनाऽन्यत्र-धना । यत एते दोषा अतोद्र भा०। धना, आदिशब्दात् प्रवचनोड्डाहादयोऽनेके दोषाः। यत एवमतो का.॥ ३°छेदपि भा०॥ ४ एतन्मध्यगतः पाठः कां० प्रतावेव वर्तते ॥ ५ ततोऽसत्यां वसतीगी का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy