________________
भाष्यगाथाः २५७९-८६] . प्रथम उद्देशः ।
प्रतिवद्ध श व्या प्रकृतम्
10
सूत्रम्
नो कप्पइ निग्गंथाणं पडिबद्धसेज्जाए वत्थए ३० ॥ अस्य सम्बन्धमाह
इति ओह-विभागेणं, सेजा सागारिका समक्खाया। __ तं चेव य सागरियं, जस्स अदूरे स पडिबद्धो । २५८३ ॥ 'इति' एवमोघेन विभागेन च 'सागारिका' सागारिकयुक्ता 'शय्या' प्रतिश्रयापरपर्याया समाख्याता । तदेव च सागारिकं यस्योपाश्रयस्य 'अदूरे' आसन्ने स प्रतिबद्ध उच्यते । तत्र निर्ग्रन्थानामवस्थानमनेन प्रतिषिध्यते ॥ २५८३ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या--नो कल्पते निर्ग्रन्थानां 'प्रतिवद्धशय्यायां' द्रव्यतो भावतश्च प्रतिबद्धे उपाश्रये वस्तुमिति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः
नाम ठवणा दविए, भावम्मि चउविहो उ पडिबद्धो ।
दव्वम्मि पट्ठिवंसो, भावम्मि चउव्विहो भेदो ॥ २५८४ ॥ नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधः प्रतिबद्धः । तत्र नाम-स्थापने गतार्थे । द्रव्यतः पुनर-15 यम्---'पृष्ठवंशः' बलहरणं स यत्रोपाश्रये गृहस्थगृहेण सह सम्बद्धः स द्रव्यप्रतिबद्ध उच्यते । 'भावे तु' भावप्रतिबद्धे चिन्त्यमाने चतुर्विधो भेदो भवति ॥ २५८४ ॥ तद्यथा
पासवण ठाण रूवे, सद्दे चेव य हवंति चत्तारि । [नि.भा. ५२०-४९]
दव्वेण य भावेण य, संजोगो होइ चउभंगो ॥ २५८५ ॥ प्रश्रवणे स्थाने रूपे शब्दे चेति चत्वारो भेदा भावप्रतिबद्धे भवन्ति । तत्र यस्मिन् साधूनां 20 स्त्रीणां च कायिकीभूमिरेका स प्रश्रवणप्रतिबद्धः । यत्र पुनरेकमेवोपवेशनस्थानं स स्थानप्रतिबद्धः । यत्र तु स्त्रीणां रूपमवलोक्यते स रूपप्रतिबद्धः । यत्र स्थितैर्भाषा-भूषण-रहस्यशब्दाः श्रूयन्ते स शब्दप्रतिबद्धः । अत्र च द्रव्येण च भावेन च संयोगे चतुर्भङ्गी भवति । तद्यथा--- द्रव्यतो नामैकः प्रतिबद्धो न भावतः, भावतो नामैकः प्रतिबद्धो न द्रव्यतः, एको द्रव्यतोऽपि भावतोऽपि, एको न द्रव्यतो न भावतः ॥२५८५॥ एवं चतुर्भङ्गयां विरचितायां विधिमाह-25
चउत्थपदं तु विदिन्नं, दव्वे लहुगा य दोस आणादी।
संसद्देण विबुद्धे, अहिकरणं सुत्तपरिहाणी ॥ २५८६ ॥ चतुर्थपदमत्र ‘वितीर्णम्' अनुज्ञातम् , चतुर्थभङ्गवर्तिनि प्रतिश्रये स्थातव्यमित्यर्थः । द्रव्यप्रतिबद्धे तिष्ठतां चत्वारो लघुकाः, आज्ञादयश्च दोषाः । साधूनां सम्बन्धिना आवश्यिकी-नैषे. १°न-ओघसूत्रेण विभागेन च-विभागसूत्रैः 'सागा का० ॥ २°द्धे वक्ष्यमाणलक्षणे उ° कां० ॥ ३ °ति । गाथायां पुंस्त्वनिर्देशःप्राकृतत्वात्।त° कां०॥ ४ °ये उभयतोऽप्रतिबद्धे स्था' कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org