________________
७२४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [सागारिकोपा० सू० २६-२९ पुरुषनपुंसका अपि न केवलं पुरुषा इत्यपिशव्दार्थः संजिनोऽसंज्ञिनश्चेति द्विविधा भवन्ति । उभयेऽपि प्रत्येकं चतुर्विधाः-मध्यस्था आभरणप्रियाः कान्दर्पिकाः काथिकाश्चेति ॥२५७०॥
एकेका ते तिविहा, थेरा तह मज्झिमा य तरुणा य ।
एवं सन्नी वारस, वारस अस्सन्निणो होति ॥ २५७१ ॥ 5 एकैकाः 'ते' मध्यस्थादयस्त्रिविधाः-स्थविरा मध्यमास्तरुणाश्च । एवं संज्ञिनो द्वादश असंज्ञिनोऽपि द्वादश भवन्ति ॥ २५७१ ॥ एतेषु प्रायश्चित्तमाह
जह चेव य पुरिसेसुं, सोही तह चेव पुरिसवेसेसु ।
तेरासिएसु सुविहिय !, पडिसेवग-अपडिसेवीसु ॥ २५७२ ।। यथैव पुरुषेषु शोधिरुपवर्णिता तथैव पुरुषवेषेष्वपि त्रैराशिकेषु' नपुंसकेषु हे सुविहित ! 10प्रतिसेवकेषु अप्रतिसेवकेषु वा शोधि जानीहीत्युपस्कारः । सा चेयम्-पुरुषनपुंसकानां ये
काथिकास्तरुणास्तेषु चत्वारो गुरवः, शेषेषु भेदेषु चतुर्लघुकाः । कारणे पुनरध्वनिर्गतादीनां वसतेरलाभे तिष्ठतां तथैव पुरुषनपुंसकेप्वपि यतनाक्रमो यथा पुरुषेषु प्रतिपादितः ॥२५७२॥
जह कारणे पुरिसेसुं, तह कारणे इत्थियासु वि वसेजा।
अद्धाण-चास-सावय-तेणेसु व कारणे वसती ॥ २५७३ ॥ 15 यथा कारणे पुरुषेषु पुरुषवेषनपुंसकेषु वा वसन्ति तथा स्त्रीषु स्त्रीवेषधारिषु वा नपुंसकेषु कारणे
वसेयुः । किं पुनस्तत् कारणम् ? इत्याह-अध्वानं प्रतिपन्नास्ततो निर्गता वा शुद्धामल्पतरदोषदुष्टां वा वसतिं न लभन्ते तत उद्यानादौ तिष्ठन्ति । अथ वर्षे पतति बहिवा श्वापदभयं शरीरोपधिस्तेनभयं वा तत ईदृशे कारणे स्त्रीसागारिके तदभावे स्त्रीवेषधारिषु वा नपुंसकेषु पूर्वोक्तक्रमेण वसन्ति ॥ २५७३ ॥ निष्कारणे तु तत्र तिष्ठतामिदं प्रायश्चित्तम्
१°षु स्थीयते तथा 'स्त्रीष्वपि' स्त्रीसागारिकेऽपि कारणे वसेत् । यद्वा यथैव 'पुरुषेषु' पुरुषवेषेषु नपुंसकेषु कारणे वसन्ति तथा स्त्रीषु स्त्रीवेषधारिषु नपुं॰ भा० ॥ २ध्वा-मार्गः तं प्रति° भा० ॥
३ नपुंसकेषु स्थातव्यम् ।। २५७३ ॥ भावितं निर्ग्रन्थसूत्रद्वयम् । अथ निर्ग्रन्थीसूत्रद्वयं विभावयिषुराह
एसेव कमो नियमा, निग्गंथीणं पि होइ विन्नेओ ।
जह तेसि इत्थियाओ, तह तासि पुमो मुणेयव्वो ॥ एष एव क्रमो नियमाद् निर्ग्रन्थीनामपि भवति, परं यथा तेषां निर्ग्रन्थानां स्त्रियो गुरुतरदोषस्थानं तथा तासां पुरुषो ज्ञातव्यः ॥ इह श्रमणानां स्त्रीसागारिके तिष्ठतां प्राक प्रायश्चित्तं मोक्तम् अतः सम्प्रति तदाह-काहीयातरुणीसुं० गाथा भा०।
गाथैषा तट्टीका च भा• प्रतावत्राधिका वर्तते । नेयं गाथा चूर्णी विशेषचूर्जी बृहद्भाष्ये वा वर्त्तते किन्तु ता. संज्ञके लघुभाष्यप्रत्यादर्शे वर्तत इयं गाथा।
एतद्गाथानन्तरं लघुभाष्यसत्के ता० संज्ञके आदर्श "इति ओहविभागेणं." इति २५८३ गाथापर्यवसाना गाथाः क्रममेदेन वर्तन्ते । तथाहि-एसेव कमो नियमा० ( अधिका गाथा)। काहीयातरुणीसुं० २५७४ । थेरादितिए अहवा० २५८१ । सन्नी-अस्सनीणं० २५८२ । काहीयातरुणेसु वि० २५८० । जह चेव य इत्थीसु. २५७५ । एमेव होंति इत्थी० २५७६ । एवं एकेक विगं० २५७७। एसेव कमो नियमा० २५७८ । काहीयातरुणीसुं० २५७९ । इति ओहविभागेणं० २५८३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org