________________
भाष्यगाथाः २५६२-७०] प्रथम उद्देशः ।
७२३ असंज्ञिनोऽपि द्वादशविधा भवन्ति ।। २५६६ ॥ एतेष्वेव प्रायश्चित्तमाह
काहीयातरुणेसुं, चउसु वि चउगुरुग ठायमाणस्स ।
सेसेसुं चउलहुगा, समणाणं पुरिसवग्गम्मि ॥ २५६७ ॥ संज्ञिनामसंज्ञिनां च यः काथिकस्तरुणः एतौ द्वौ भेदौ, ये च वक्ष्यमाणा नपुंसकाः पुरुषनेपथ्यास्तेषामपि संज्ञिनामसंज्ञिनां चैकैकः काथिकस्तरुणः, एते चत्वारो भेदाः, एतेषु चतुषु । तिष्ठतः प्रत्येकं चत्वारो गुरुकाः । शेषेषु भेदेषु तिष्ठतः प्रत्येकं चतुर्लघु । एतत् प्रायश्चित्तं श्रमणानां पुरुषवर्गे भणितम् ॥ २५६७॥ कारणे पुनस्तिष्ठतां विधिमाह
सन्नीसु पढमवग्गे, असती अस्सन्निपढमवग्गम्मि ।
तेण परं सन्नीसुं, कमेण अस्सन्निसुं चेव ॥ २५६८ ॥ वसतौ निर्दोषायामसत्यां संज्ञिषु यः प्रथमवर्ग:-मध्यस्थाः पुरुषास्तत्र तिष्ठन्ति । तत्रापि 10 प्रथम स्थविरेषु, तेषामभावे मध्यमेषु, तदलामे तरुणेष्वपि । अथ संज्ञिनां प्रथमवर्गों न प्राप्यते ततोऽसंज्ञिनामपि प्रथमवर्गे स्थविर-मध्यम-तरुणेषु यथाक्रमं तिष्ठन्ति । 'ततः परं' तेषामभावे द्वितीयादिवर्गेषु क्रमेण तिष्ठन्ति । द्वितीयवर्गो नाम आभरणप्रियाः । तेषु प्रथमं संज्ञिषु स्थविरमध्यम-तरुणेषु, तत एतेष्वेवासंज्ञिषु । तदभावे संज्ञिनां तृतीयवर्गे कान्दर्पिकपुरुषेषु, तेषामलाभेऽसंज्ञिनां तृतीयवर्गे स्थविरादिषु यथाक्रमं स्थातव्यम् ॥ २५६८ ॥
15 एवं एकेक तिगं, वोचत्थकमेण होइ नायव्यं ।
मोत्तूण चरिम सन्नी, एमेव नपुंसएहिं पि ॥ २५६९॥ एवं मध्यस्थादिषु एकैकस्मिन् पदे त्रिकं 'विपर्यस्तक्रमेण' प्रथमं स्थविरेषु ततो मध्यमेषु ततस्तरुणेषु इत्येवंलक्षणेन स वैरीत्यविधिना भवति । ज्ञातव्यम् , परं मुक्त्वा चरमं संज्ञिनम् । किमुक्तं भवति ?--चरमो भेदः काथिकः, तत्र संज्ञिनि प्रथमतस्त्रिकं न चारयितव्यं 20 किन्तु द्विकम् , तद्यथा-यदा तृतीयवर्गो न प्राप्यते तदा चतुर्थवर्गे प्रथमं संज्ञिषु काथिकस्थविरेषु, तदलाभे काथिकमध्यमेषु, तदप्राप्तावसंज्ञिषु काथिकस्थविरेषु, तदभावे काथिकमध्यमेषु तिष्ठन्ति; अथ तेऽपि न प्राप्यन्ते ततः संज्ञिपु काथिकतरुणेपु, तदभावेऽसंशिष्वपि काथिकतरुणेषु तिष्ठन्ति, ते चोभयेऽपि प्रज्ञापनीया यथा कथां न कथयन्ति । एवं पुरुषेषु स्थातव्ये विधिरुक्तः । एवमेव च नपुंसकेष्वपि वक्तव्यः ॥ २५६९ ॥ इदमेव भावयति
एमेव होंति दुविहा, पुरिसनपुंसा वि सन्नि अस्सन्नी ।
मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव ॥ २५७० ॥ पुरुषसागारिकालाभे कदाचिन्नपुंसकसागारिकः प्रतिश्रयो लभ्यते तत्राप्येवमेव भेदाः कर्तव्याः । तत्र नपुंसका द्विधा-स्त्रीनेपथ्यिकाः पुरुषनेपथ्यिकाश्च । ये पुरुषनेपथ्यिकास्ते द्विधा–प्रतिसेविनोऽप्रतिसेविनश्च । ये तु स्त्रीनेपथ्यिकास्ते नियमात् प्रतिसेविनः । तत्र 30
१°म् । एतदप्राप्तौ चतुर्थवर्गे काथिकपुरुषलक्षणे अनेनैव क्रमेण स्थेयम् ॥ २५६८ ॥ तथा चामुमेव किश्चिद्विशेषयुक्तमतिदेशमाह-एवं कां० ॥ २१ एतदन्तर्गतः पाठः कां० पुस्तक एव वर्तते ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org