________________
७२२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २६-२९ द्धायां वसतावसत्यां मन्तव्यः, तथा च यद्यसागारिका वसतिर्न प्राप्यते ततो गीतार्था यतनया द्रव्यसागारिके वसन्ति, पुरुषसागारिके इत्यर्थः ॥ २५६१ ॥
ते वि य पुरिसा दुविहा, सन्नी अस्सन्निणो य बोधव्या।
मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव ॥ २५६२ ॥ 5 तेऽपि च पुरुषा द्विविधाः-संज्ञिनोऽसंज्ञिनश्च । संज्ञा नाम-देव-गुरु-धर्मतत्त्वानां यथावत् परिज्ञानं सा विद्यते येषां ते संज्ञिनः, श्रावका इत्यर्थः । तद्विपरीता असंज्ञिनः । एते प्रत्येकं चतुर्विधाः-मध्यस्था आभरणप्रिया कान्दर्पिकाः काथिकाश्च ॥ २५६२ ॥ एतानेव व्याचष्टे
आभरणपिए जाणसु, अलंकरिते उ केसमादीणि ।
सइरहसिय-प्पललिया, सरीरकुइणो य कंदप्पा ॥ २५६३ ॥ 10
अक्खाइयाउ अक्खाणगाइँ गीया छलियकव्वाई। कहयंता य कहाओ, तिसमुत्था काहिया होति ॥ २५६४ ॥ एएसिं तिहं पी, जे उ विगाराण बाहिरा पुरिसा ।
वेरग्गरुई निहुया, निसग्गहिरिमं तु मज्झत्था ॥ २५६५ ॥ केशादीनि माल्यादिभिरलङ्कारैरलङ्कुर्वतः पुरुषानाभरणप्रियान् जानीहि । ये तु खैरहसित15 प्रललिताः' खेच्छयो परस्परमट्टहासादिना हसन्ति, द्यूतान्दोलनादिना च क्रीडन्ति, ये च 'शरीरकुचयः' विविधषिगचेष्टाकारिणः ते कान्दर्पिकाः २५६३ ॥
तथा 'आख्यायिकाः' तरङ्गवती-मलयवतीप्रभृतयः, 'आख्यानकानि' धूख्यिानकादीनि, 'गीतानि' ध्रुवकादिच्छन्दोनिवद्धानि गीतपदानि, तथा 'छलितकाव्यानि' शृङ्गारकाव्यानि, 'कथाः' वसुदेवचरित-चेटककथादयः, 'त्रिसमुत्थाः' धर्म-कामा-ऽर्थलक्षणपुरुषार्थत्रयवक्तव्य20 ताप्रभवाः सङ्कीर्णकथा इत्यर्थः । एतान्याख्यायिकादीनि कथयन्तः काथिका उच्यन्ते, कथया चरन्तीति व्युत्पत्तेः ॥ २५६४ ॥ .
'एतेषाम्' आभरणप्रियादीनां त्रयाणामपि सम्बन्धिनो ये विकारास्तेभ्यः 'बाह्याः' वहिर्वतिनो ये पुरुषाः 'वैराग्यरुचयः' केवलवैराग्यश्रद्धालवो न शृङ्गारादिरसप्रियाः 'निभृताः' करचरणेन्द्रियेषु संलीनाः निसर्गेण-खभावेनैव हीमन्तः-सलज्जाः ईदृशा मध्यस्था ज्ञातव्याः 25॥ २५६५ ॥ पुनरप्यमीषां प्रत्येकं भेदानाह- .
एकेका ते तिविहा, थेरा तह मज्झिमा य तरुणा य ।
एवं सन्नी बारस, बारस अस्सन्निणो होंति ॥ २५६६ ॥ एकैके मध्यस्थादयस्त्रिविधाः-स्थविगस्तथा मध्यमाश्च तरुणाश्च । ततो मध्यस्थादयश्चत्वारः स्थविरादिभेदत्रयेण गुण्यन्ते जाता द्वादश भेदाः । एवं 'संज्ञिनः' श्रावकास्ते द्वादशविधाः । १ यदि विशुद्धा वस' भा० ॥
२ °या-मातापित्रादिगुरुजनेनानिवार्यमाणा अट्टहासादिना हसनशीला द्यूतान्दोलनादिक्रीडनशीलाच, ये च 'शरीर° भा० ॥ ३ दिक्रीडया च प्रकर्षेण ललयन्ति, ये कां० ॥ ४ °वती-वासवदत्तादयः, 'आ° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org