________________
भाष्यगाथाः २५५४-६१] प्रश्रम उद्देशः ।
७२१ निशम्य भुक्ता-ऽभुक्तसमुत्था दोषाः ॥ २५५७ ॥ एतेषु तिष्ठतः प्रायश्चित्तमाह
एकेक्कम्मि उ ठाणे, चउरो मासा हवंति उग्धाया।
आणाइणो य दोसा, विराहणा संजमाऽऽयाए ॥ २५५८ ॥ एतेषु रूपा-ऽऽभरणादिषु एकैकस्मिन् स्थाने तिष्ठतश्चत्वारो मासा उद्धाता भवन्ति, लघव इत्यर्थः । आज्ञादयश्च दोषाः, विराधना च संयमे आत्मनि च द्रष्टव्या ॥ २५५८ ॥
एवं ता सविकारे, निव्वीकारे इमे भवे दोसा ।
संसद्देण विबुद्धे, अहिगरणं सुत्तपरिहाणी ॥ २५५९ ॥ एवं तावत् सविकारपुरुषेषु दोषा उक्ताः । निर्विकारपुरुषेषु त्वमी दोषा भवेयुः--साधूनां खाध्यायसत्केनावश्यिकी-नषेधिकीसम्बन्धिना वा संशब्देन विबुद्धास्ते पुरुषाः साधुभिः सह 'अधिकरणम्' असङ्खडं कुर्युः । तत्रात्मविराधना सूत्रपरिहाणिश्च भवति ॥ २५५९ ॥ 10 संयमविराधना त्वियम्
आउ जोवण वणिए, अगणि कुटुंबी कुकम्म कुम्मरिए ।
तेणे मालागारे, उन्भामग पंथिए जंते ॥ २५६० ॥ सोधूनां गृहस्थानां च सम्बन्धिना असङ्खडशब्देन विबुद्धाः स्त्रियः “आउ" ति अप्कायाहरणार्थ व्रजन्ति । “जोवणं" ति रथकारादयः शकटे गवादीन् योजयित्वा काष्ठादिहेतोरटवीं 1 गच्छेयुः । वणिजो घृतकुतुपादिकं गृहीत्वा प्रामान्तरं व्रजन्ति । "अगणि' त्ति लोहकारादय उत्थायाग्निप्रज्वालनादिकर्मणि लगन्ति । कुटुम्बिनो हलादीनि गृहीत्वा क्षेत्राणि गच्छन्ति । 'कुकर्माणः' मत्स्यबन्ध-वागुरिकादयो मत्स्याद्यर्थ गच्छन्ति। कुत्सितः-मारणीयसत्त्वस्यातीववेदनोत्पादकत्वान्निन्द्यो यो मारः-मारणं स विद्यते येषां ते कुमारिकाः-सौकरिका इत्यर्थः तेऽपि खकमणि लगन्ति । स्तेनः प्रभातमिति कृत्वा पन्थानं बन्झुं गच्छेत् । मालाकारः करण्डं गृहीत्वाऽऽ- 20 रामं गच्छति । 'उद्धामकः' पारदारिकः स दत्तसङ्केत उन्द्रामिकां गृहीत्वा पलायेत । पथिको बिबुद्धः पथि प्रवर्त्तते । यत्रिका विबुद्धाः सन्तो यन्त्राणि वाहयन्ति । यस्मादेते दोषास्तस्मात् पुरुषेष्वपि न स्थातव्यम् ॥ २५६० ॥ नोदकः प्राह
एवं सुत्तं अफलं, सुत्तनिवाओ उ असइ वसहीए ।
गीयत्था जयणाए, वसंति तो दव्वसागरिए ॥ २५६१॥ 25 यदि 'एवं' पुरुषेष्वपि निम्रन्थानां वस्तुं न कल्पते तर्हि सूत्रं "कल्पते पुरुषसागारिके वस्तुम्" (सू० २७) इत्येवंलक्षणमफलं प्राप्नोति । गुरुराह-'सूत्रनिपातः' सूत्रस्यावसरो विशु
१°न रात्रौ सुप्ताः सन्तस्ते पुरुषावुध्येरन् , विवुद्धाश्च सन्तः षट्कायविराधनां कुर्वन्ति ततोऽधिकरणम । अथाधिकरणमयात सूत्रार्थपौरुष्यौ न कुर्वन्ति ततः सत्रार्थपरि. हाणिः ॥ २५५९ ॥ अथाधिकरणपदं व्याचष्टे भा० ॥
२ साधूनां शब्देनागारिणो विबुद्धा अकाययत्राणि योजयन्ति, अथवा “आउ"त्ति अकायाहरणार्थ योषितो व्रजन्ति । "जोवणं" भा०॥ ३ एतन्मध्यमतः पाठः भा० त० हे. नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org