________________
७२० सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २६-२९
पुव्वभणियं तुं पुणरवि, जं भण्णइ तत्थ कारणं अस्थि ।
पडिसेहोऽणुन्ना कारणं विसेसोवलंभो वा ॥ २५५४ ॥ तुशब्दोऽपिशब्दार्थे । पूर्वभणितमपि पुनरपि यद् भण्यते तत्र कारणमस्ति । किम् ? इत्याह—“पडिसेहो" त्ति ये पूर्वमनुज्ञां कुर्वता अर्था उक्तास्त एव भूयः प्रतिषेधद्वारेण भण्यन्ते । 5 "अणुन्न' त्ति येऽर्थाः पूर्वं प्रतिषेधं कुर्वता भणितास्तानेवानुज्ञां कुर्वन् भूयोऽपि दर्शयति । तथा 'कारणं' निमित्तं तद्दर्शनार्थ भूयोऽपि स एवार्थो भणनीयः । अथवा पूर्व सामान्येन यः प्रतिपादितोऽर्थस्तस्यैव विशेषोपलम्भार्थ प्राग् भणितमपि भूयः प्रतिपादनीयम् । एवं प्रागुक्तभणने चत्वारि कारणानि सन्तीति ॥२५५४ ॥ आह यद्येवं ततः प्रस्तुते किमायातम् ? इत्याह. ओहे सव्वनिसेहो, सरिसाणुना विभागसुत्तेसु। .
जयणाहेउं भेदो, तह मज्झत्थादओ वा वि ॥२५५५ ॥ "नो कप्पइ निग्गंथाण वा निग्गंथीण वा सागारिए उवस्सए वत्थए" (सू० २५) इत्यस्मिन् - ओघसूत्रे सर्वस्यापि सागारिकस्य निषेधः कृतः, इह तु विभागसूत्रेषु सदृशानुज्ञा क्रियते, यथा-पुरुषाणां पुरुषसागारिके स्त्रीणां स्त्रीसागारिके वस्तुं कल्पते । तथा यतना
यथा पुरुषेषु स्त्रीषु वा कर्तव्या तदर्शनहेतोर्विभागसूत्राणां भेदः । मध्यस्थादयो वा स्त्री-पुरुषाणां 15 भेदा अर्थतो दर्शयिष्यन्ते (गा० २५६२) इति विभागसूत्राणां पृथगारम्भः क्रियते ॥ २५५५ ॥ अथ द्वितीयसूत्रे विशेषोपलम्भं दर्शयन्नाह
पुरिससागारिए उवस्सयम्मि, चउरो लहुगा य दोस आणादी ।
ते वि य पुरिसा दुविहा, सविकारा निविकारा य ॥ २५५६ ॥ "कल्पते निम्रन्थानां पुरुषसागारिके उपाश्रये वस्तुम्" (सू० २७) इत्येवं यद्यपि सूत्रेऽनु20 ज्ञातं तथाप्युत्सर्गतो न कल्पते । यदि वसन्ति ततश्चत्वारो लघुकाः प्रायश्चित्तम् » आज्ञादयश्च दोषाः । तेऽपि च पुरुषा द्विविधाः-सविकारा निर्विकाराश्च ॥ २५५६ ॥ तत्र सविकारान् व्याख्यानयति
रूवं आभरणविहिं, वत्था-ऽलंकार-भोयणे गंधे ।
आउज्ज नट्ट नाडग, गीए अ मणोहरे सुणिया ॥ २५५७ ॥ 25 A इह ये पुरुषाः । रूपं उद्वर्तन-स्नान-नखदन्तकेशसंस्थापनादिना खशरीरे जनयन्ति,
'आभरणविधि' मणि-कनकादिमयानाभरणभेदान् 'वस्त्राणि वा' चीनांशुकादीनि परिदधते, 'अलङ्कारेण वा' केश-माल्यादिनाऽऽत्मानमलङ्कुर्वन्ति, भोजनं वा महता विस्तरेण भुञ्जते, चन्दन-कर्पूरादिभिः कोष्ठपुटपाकादिभिर्वा गन्धैरात्मानमालिम्पन्ति वासयन्ति वा, तत-विततादिकं वा चतुर्विधमातोद्यं वादयन्ति, नृतं वा कुर्वन्ति, नाटकं वा नाटयन्ति, मधुरध्वनिना वा गीत30 मुच्चरन्ति, एते सविकारा उच्यन्ते । एतेषां रूपादीनि मनोहराणि दृष्ट्वा गीतादिशब्दाँश्च श्रुत्वा'
१ तु जं एत्थ भण्णते तत्थ ता० ॥ २ > एतच्चिह्नगतः पाठः भा० त० डे० नास्ति । ३ सूत्रानु भा० त० डे० ॥ ४-५ एतचिह्नान्तस्थः पाठः भा० त० डे० नास्ति ॥ ६°न्ति, श्रव्यकाकलीध्वनि भा०॥ ७°नि दृष्टा गन्धांश्च मनोहरानाघ्राय गीता भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org