SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २५४७-५३] प्रथम उद्देशः । - ७१९ नो कप्पइ निग्गंथाणं इत्थिसागारिए उवस्सए वत्थए २६ ॥ कप्पइ निग्गंथाणं पुरिससागारिए उवस्सए वत्थए २७॥ तथा नो कप्पइ निग्गंथीणं पुरिससागारिए उबस्सए वत्थए २८॥ कप्पइ निग्गंथीणं इत्थिसागारिए उवस्सए वत्थए २९ ॥ अस्य सूत्रचतुष्टयस्य सम्बन्धमाह अविसिढे सागरियं, वुत्तं तं पुण विभागतो इणमो । मज्झे पुरिससगारं, आदी अंते य इत्थीसु ॥ २५५१ ॥ पूर्वसूत्रे 'अविशिष्टं' स्त्री-पुरुषविशेषरहितं सागारिकमुक्तम् । अधुना पुनः तदेव सागारिक 'विभागतः' स्त्री-पुरुषविशेषादस्मिन् सूत्रचतुष्टयेऽभिधीयते । अत्र च मध्यवर्तिसूत्रद्वये पुरुषसागारिकमादिसूत्रे अन्त्यसूत्रे च स्त्रीसागारिकमाश्रित्य विधिरभिधीयत इति ॥ २५५१ ॥ 15 अनेन सम्बन्धेनायातस्यास्य सूत्रचतुष्टयस्य व्याख्या-नो कल्पते निम्रन्थानां स्त्रीसागारिके उपाश्रये वस्तुम् । कल्पते निर्ग्रन्थानां पुरुषसागारिके उपाश्रये वस्तुम् । नो कल्पते निर्ग्रन्थीनां पुरुषसागारिके उपाश्रये वस्तुम् । कल्पते निर्ग्रन्थीनां स्त्रीसागारिके उपाश्रये वस्तुमिति सूत्रचतुष्टयाक्षरार्थः ॥ अथ भाप्यकारो विस्तरार्थं बिभणिषुराहइत्थीसागरिऍ उवस्सयम्मि स च्चेव इत्थिया होइ।. 20 देवी मणुय तिरिच्छी, स चैव पसजणा तत्थ ॥ २५५२ ॥ स्त्रीसागारिके उपाश्रये वस्तुं न कल्पते, सा चानन्तरसूत्रे या देवी मानुपी तिरश्ची च प्रतिपादिता सैवात्रापि द्रष्टव्या । सैव च 'प्रसजना' मिथ्यात्व-शङ्का-भोजिकादिरूपा । तत्र च प्रायश्चित्तमपि तदेव मन्तव्यम् ॥ २५५२ ॥ अत्र परः प्राह जइ स चेव य इत्थी, सोही य पसज्जणा य स चेव । सुत्तं तु किमारद्धं, चोदग! सुण कारणं इत्थं ॥ २५५३ ॥ यदि सैव स्त्री सैव 'शोधिः' प्रायश्चित्तं सैव च प्रसजना तर्हि किमर्थमिदं स्त्रीसागारिकसूत्रमारब्धम् ? पुनरुक्तदोपदुष्टत्वान्नेदमारब्धं युज्यत इति भावः । सूरिराह-नोदक ! कारणमत्रास्ति येनेदं सूत्रमारब्धम् , तच्चावहितः 'शृणु' निशमय ॥ २५५३ ॥ १ ओहेण तु सागरियं ता० ॥ २' सूत्रतः साक्षादविशिष्टं-साक्षात् स्त्री-पु° का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy