SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ७१८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २६-२९ एसेव कमो नियमा, निग्गंथीणं पि होइ नायव्यो । पुरिसपडिमाउ तासिं, साणम्मि य जं च अणुरागो ॥ २५४७॥ 'एष एव' द्रव्य-भावसागारिकविषयः क्रमो नियमाद् निर्ग्रन्थीनामपि भवति ज्ञातव्यः । नवरं दिव्यद्वारे तासां पुरुषप्रतिमा द्रष्टव्याः, मानुष्यद्वारे मनुजपुरुषाः, तैरश्चद्वारे तिर्यक्पुरुषा इति । • तैरश्चे च श्वान विषयो यदनुरागो बभूव तदृष्टान्तो भवति । जहा--एगा अविरइया अवाउडा काइयं वोसिरंती विरहे साणेण दिट्ठा । सो य साणो पुच्छं लोलितो चाडूणि करेंतो अल्लीणो । सा अगारी चिंतेइ-पेच्छामि तावइ एस किं करेइ ? त्ति । तस्स पुरतो सागारियं अभिमुहं काउं जाणुएहिं हत्थेहि य अहोमुही ठिया । तेण सा पडिसेविया । तीए अगारीए तत्थेव साणे अणुरागो जातो । एवं मिग-छगल-वानरादी वि 10 अगारिं अभिलसंति ॥ यत एते दोषास्ततः सागारिके प्रतिश्रये न वस्तव्यम् ॥२५४७॥ अथ द्वितीयपदमाह अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । गीयत्था जयणाए, वसंति तो दवसागरिए ॥ २५४८॥ अध्वनिर्गतादयः 'त्रिकृत्वः' त्रीन् वारानन्यां निर्दोषां वसतिं मार्गयित्वा यदि न लभन्ते 15 ततोऽन्यस्यां वसतावसत्यां गीतार्था यतनया द्रव्यसागारिकेऽप्युपाश्रये वसन्ति ॥ २५४८ ॥ यतनामेवाह जहिँ अप्पतरा दोसा, आभरणादीण दूरतो य मिगा। चिलिमिलि निसि जागरणं, गीए सज्झाय-झाणादी ॥ २५४९॥ 'यत्र' रूपा-ऽऽभरणादावल्पतरा दोषाः तत्र तिष्ठन्ति । मृगा इव मृगाः-अज्ञत्वादगीतार्था20स्तानाभरणादीनां दूरतः कुर्वन्ति । चिलिमिलिकां च रूपादीनामपान्तराले बध्नन्ति । 'निशि' रात्रौ तत्र जागरणं कर्त्तव्यम् , मा स्तेनादिराभरणादिकमपहरेदिति कृत्वा । गीतशब्दे च श्रूयमाणे महता शब्देन खाध्यायं कुर्वन्ति, ध्यानलब्धिसम्पन्नो वा ध्यानं ध्यायति, आदिशब्दाद् नृत्ते नाटके वा विधीयमाने तदभिमुखं नावलोकन्ते ॥२५४२॥ भावसागारिके द्वितीयपदमाह अद्धाणनिग्गयादी, वासे सावयभए व तेणभए । आवरिया तिविहे वी, वसंति जयणाएँ गीयत्था ॥ २५५० ॥ __ अध्वनिर्गतादयो ग्रामादीनामन्तः शुद्धां वसतिमलभमाना बहिरप्युद्यानादौ वसन्ति । अथ बहिर्वसतामिमे दोषाः- “वास" त्ति वर्षे निपतति, सिंह-व्याघ्रादीनां वा श्वापदानां भयम् , स्तेनानां वा शरीरोपधिहराणां भयम् । ततो ग्रामादेरन्तर्भावसागारिके जघन्यमध्यमोत्कृष्टभेदाद् प्राजापत्यादिपरिगृहीतभेदाद्वा त्रिविधेऽपि वसन्ति । तत्र च प्रतिमा वस्त्रादिभिरावृताः क्रियन्ते। 30 मनुष्य-तिर्यस्त्रियश्च कटकचिलिमिलिकामपान्तराले दत्त्वा यथा न विलोक्यन्ते तथाऽऽवृताः 'सन्तो गीतार्था यतनया वसन्ति ॥ २५५० ॥ सूत्रम् १ नेयव्यो ता० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy