________________
10
७१४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० स० २५ पडिसेवणाएँ एवं, पसज्जणा तत्थ होइ इकिक्के ।
चरिमपदे चरिमपदं, तं पि य आणाइनिप्फन्नं ।। २५२४ ॥ अनयोर्व्याख्या प्राग्वत् ( गा० २४८१-८२ ) ॥ २५२३ ॥ २५२४ ॥
ते चैव तत्थ दोसा, मोरियआणाएँ जे भणिय पुधि ।
आलिंगणाइ मोत्तुं, माणुस्से सेवमाणस्स ॥ २५२५ ॥ 'त एव' अनवस्था-मिथ्यात्वादयः 'तत्र' मानुष्यकस्त्रीरूपे दोषा ये पूर्व "मुरियाई आणाए" (गा० २४४७) इत्यादिगाथायां भणिताः । नवरं दिव्यप्रतिमाया आलिङ्गने ये प्रतिमाभङ्गदोषा भद्रक-प्रान्तकृता उक्तास्तान् मुक्त्वा शेषाः सर्वेऽपि मानुष्यकं देहयुतं सेवमानस्य भणितव्याः ॥ २५२५ ॥ इदमेव स्फुटतरमाह
आलिंगते हत्थाइभंजणे जे उ पच्छकम्मादी ।
ते इह नत्थि इमे पुण, नक्खादिविछेअणे सूया ॥ २५२६ ॥ लेप्यप्रतिमामालिङ्गमानस्य तस्याः प्रतिमाया हस्त-पादाद्यवयवभङ्गे सति ये पश्चात्कर्मादयो दोषा उक्तास्ते 'इह' मानुष्यके देहयुते न भवन्ति । इमे पुनर्दोषा अत्र भवन्ति--सा स्त्री
कामातुरतया तं साधु नखैर्विच्छिन्द्यात् , आदिशब्दाद् दन्तक्षतानि वा कुर्वीत । तैश्च तस्य 15 श्रमणकस्य खपक्षेण वा परपक्षेण वा सूचा क्रियेत—यदेवमस्य वपुषि नख-दन्तक्षतानि दृश्यन्ते तदेष निश्चितं प्रतिसेवक इति ॥ २५२६ ॥ अथ मानुषीषु चतुरो विकल्पान् दर्शयति
सुहविनप्पा सुहमोइगा य सुहविन्नप्पा य होंति दुहमोया ।
दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया ॥ २५२७ ॥ १ मनुष्यस्त्रियश्चतुर्विधाः, तद्यथा-» सुखविज्ञप्याः सुखमोच्याः १ सुखविज्ञप्या दुःख - 20 मोच्याः २ दुःखविज्ञप्याः सुखमोच्याः ३ दुःखविज्ञप्या दुःखमोच्याः ४ चेति ॥ २५२७ ॥ चतुर्ध्वपि भङ्गेषु यथाक्रमममूनि निदर्शनानि. खरिया महिड्डिगणिया, अंतेपुरिया य रायमाया य ।
उभयं सुहविनवणा, सुमोय दोहिं पि य दुमोया ॥ २५२८ ॥ 'खरिका' यक्षरिका सा सर्वजनसाम्यतया सुखविज्ञप्या, परिफल्गुसुखलवास्वादनहेतुत्वाच्च 25 सुखमोच्या १। या तु महर्द्धिका गणिका साऽपि साधारणस्त्रीत्वेनैव सुखविज्ञप्या, यौवन-रूपविक्रमादिभावयुक्तत्वेन तु दुःखमोच्या २ । या पुनरन्तःपुरिका सा वर्षधरादिरक्षपालकैर्दुःप्रा. पतया दुःखविज्ञप्या, प्रत्यपायबहुलतया च सुखमोच्या ३ । या तु राज्ञः सम्बन्धिनी माता सा सुरक्षिततया सर्वस्यापि च गुरुस्थाने पूजनीयतया च दुःखविज्ञप्या, प्राप्ता च सती सर्व. सौख्यसम्पत्तिकारिणी प्रमाणभूतत्वाच्च राज्ञा विधीयमानान् प्रत्यपायान् रक्षितुं शक्नोतीति दुःख30 मोच्या ४ । “उभय"मिति प्रथमा सुखविज्ञप्या सुखमोच्या १ "सुहविन्नवण'' त्ति द्वितीया सुखविज्ञपना परं दुःखमोच्या २ "सुमोय" त्ति तृतीया सुमोचा परं दुःखविज्ञपना ३ चतुर्थी ११ एतदन्तर्गतः पाठः भा० त० डे० नास्ति ॥ २°का दासीत्यर्थः सा कां० ॥ ३ कां० मो. ले. विनाऽन्यत्र-साध्यतया त. डे० । सामान्यतया भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org