________________
७१२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २५ न्तरेणापि रागादिवसदृश्यं भवतीति ज्ञापनार्थम् । यतश्चैवमतो युक्तियुक्तं दण्डिकादिपरिगृहीतासु स्त्रीषु प्रतिमासु वा प्रायश्चित्तनानात्वम् ॥ २५१५ ॥
तदेवमुक्तं दिव्यं प्रतिमायुतम् । अथ दिव्यस्यैव देहयुतस्यावसरः-तच्चाचित्तं न सम्भवति, जीवच्युतस्य दिव्यशरीरस्य तत्क्षणादेव विध्वंसनात् । यत्तु सचित्तदेवीशरीररूपं देहयुतं 5 तत्र स्थानप्रायश्चित्तं यथा प्रतिमायुते, प्रतिसेवनाप्रायश्चित्तं तु यथा मनुष्यस्त्रीषु भणिष्यते । गतं दिव्यरूपम् । अथ मानुष्यरूपमाह---
माणुस्सं पि य तिविहं, जहन्नगं मज्झिमं च उक्कोसं ।
पायावच्च-कुटुंबिय-दंडियपारिग्गहं चेव ॥ २५१६ ॥ मानुष्यमपि रूपं त्रिविधम् -'जघन्यं मध्यममुत्कृष्टं च । पुनरेकैकं त्रिविधम्-प्राजापत्य10 परिगृहीतं कौटुम्बिकपरिगृहीतं दण्डिकपरिगृहीतं चेति ॥२५१६॥ तंत्रोत्कृष्टादिविभागमाह
उक्कोस माउ-भजा, ममं पुण भगिणि-धूतमादीयं ।।
खरियादी य जहन्नं, पगयं सजितेतरे देहे ॥ २५१७ ॥ इह गृहिणो मातरं भायाँ वा नान्यस्य कस्यापि प्रयच्छन्ति, अतो माता भार्या चोत्कृष्टं मानुष्यरूपम् । यास्तु भगिनी-दुहितृ-पौत्र्यादयोऽन्यस्मै खाभिरुचिताय दीयन्ते ताः पुनर्मध्य16 मम् । खरिका-दासी तदादय इतराः स्त्रियो जघन्यम् । एतत् त्रयमपि प्रत्येकं द्विधा-प्रतिमायुतं देहयुतं च । प्रतिमायुतं दिव्यवद् वक्तव्यम् । देहयुतेन तु सजीवेन इतरेण वा-अजीवेन 'प्रकृतम्' अधिकारः, तद्विषयं प्रायश्चित्तमभिधास्यत इत्यर्थः ।। २५१७ ॥ तत्र खानप्रायश्चित्तं तावदाह
पढमिल्लगम्मि ठाणे, चउरो मासा हवंतऽणुग्धाया। 20. छम्मासाऽणुग्घाया, बिइए तइए भवे छेदो ॥ २५१८॥
१°युक्तं प्राकृत-कौटुम्बिक-दण्डिकेषु प्रायश्चित्तनानात्वम् ॥२५१५॥ अथ प्रकारान्तरेण वस्तुनानात्वनिष्पन्नं प्रायश्चित्तनानात्वमाह
रणो य इत्थियाए, संपत्तीकारणम्मि पारंची।
___ अमच्ची अणवठप्पो, मूलं पुण पागयजणम्मि ॥ राक्षः स्त्रियां या मैथुनसंपत्तिस्तल्लक्षणं यत् कारणं तत्र पाराश्चिकः । अमात्यायां मैथुनसम्पत्तावनवस्थाप्यः । प्राकृतजनस्त्रियां पुनर्मूलम् । यथैतत् प्रायश्चित्तनानात्वं तथा पूर्वोक्तमपि मन्तव्यम् ॥ गतं दिव्यसागारिकम् । अथ मानुष्यसागारिकमाह-भा०।
"अयमन्यः प्रकार:--रण्णो य० गाहा ॥” इति विशेषचूर्णौ ॥ २°स्सयं पिति ता० ॥ ३ तत्र यत् प्रतिमायुतं तद् दिव्यवदभिधातव्यम् । अथ देहयुते उत्कृ° भा० ॥
४ इह गृहिणां या 'माता' जननी या च तेषामेव भार्या तद्विषयं यदब्रह्म तद् उत्कृष्टम् । तदीयभगिनी-दुहित-पौत्र्यादिविषयं मध्यमम् । खरिका-दासी तदादिखीविषयं जघन्यम् । इह च सजीवेन इतरेण वा-अजीवेन देहयुतेन 'प्रकृ भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org