________________
७१०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २५ प्राजापत्यपरिगृहीतं. गुरुकम्, कौटुम्बिक-दण्डिकपरिगृहीतं लघुतरम् , यतः “साहस" ति प्राकृतजनो मूर्खतया साहसिकोऽपरीक्षितकारी च भवति, अनीश्वरतया च तस्य तथाविधं भयं न भवति, अतोऽसौ मरणमप्यध्यवस्य तं साधुं मारयेत् , तेनास्य गुरुतरो दोषः । 'ईतरौ नाम' कौटुम्बिक-दण्डिको तौ प्राकृतिकस्य प्रतिपक्षभूतौ । किमुक्तं भवति ?-तौ न साहसिकौ, नाप्यपरीक्षितकारिणौ, भयं च तयोर्भवति । अत्राचार्यः प्राह-दण्डिक-कौटुम्बिको गुरुतरौ, प्राकृतो लघुतरः, यतो राजा उपलक्षणत्वात् कौटुम्बिकश्च प्रभुः, प्रभुत्वाच स एकस्य रुष्टः सङ्घस्य प्रस्तारं कुर्यादिति ॥ २५०९॥ ... अथ कौटुम्बिक-दण्डिकानां यद् भयमुत्पद्यते तद् दर्शयन् परः खपक्षं द्रढयन्नाह
ईसरियत्ता रजा व भंसए मन्नुपहरणा रिसओ। 10 ते य समिक्खियकारी, अण्णा वि य सिं बहू अत्थि ॥ २५१० ॥ __एते ऋषयः 'मन्युप्रहरणाः' शापायुधा अतः कोपिताः सन्तो मा मैश्वर्याद् भ्रंशयेयुरिति कौटुम्बिकश्चिन्तयेत् , राजा तु माममी राज्याद् भ्रंशयेयुरिति चिन्तयति । ते च' राजादयः 'समीक्षितकारिणः' नाविमृश्य कार्य कुर्वन्ति । अन्यच्च तेषामन्या अपि बहवः प्रतिमाः सन्ति अतस्तस्यामेकस्यामेव तेषां नादरः ॥ २५१० ॥ एवं परेण स्वपक्षे भाविते सति सुंरिराह
पत्थारदोसकारी, निवावराहो य बहुजणे फुसइ ।
पागइओ पुण तस्स व, निवस्स व भया न पडिकुजा ॥ २५११ ॥ प्रस्तारः-कटकमदः, एकस्य रुष्टः सर्वमपि यत्र व्यापादयतीत्यर्थः, तद्दोषकारी राजा, नृपापराधश्च 'बहुजनान् स्पृशति' बहुजनमध्ये प्रकटीभवतीति भावः । एवं कौटुम्बिकस्यापि द्रष्ट__व्यम् । अत एतौ द्वावपि गुरुतरौ । प्राकृतकापराधस्तु बहुजनं न स्पृशति । अपि च प्राकृतकः 20 'तस्य वा' संयतस्य नृपस्य वा भयाद् 'न प्रतिकुर्याद्' न प्रत्यपकारं करोति ॥ २५११ ॥
अवि य हु कम्मद्दण्णो, न य गुत्ती ओ सि नेव दारट्ठा।
तेण कयं पि न नजइ, इतरत्थ पुणो धुवा दोसा ।। २५१२ ॥ 'अपि च' इत्यभ्युच्चये, प्राकृतकः क्षेत्र-खलादिकर्मभिः अद्दन्नः-अक्षणिकः ततस्तासां प्रतिमानामुदन्तं न वहति, न च तत्सम्बन्धिनीषु देवद्रोणीषु 'गुप्तिः' आत्यन्तिकी रक्षा, न वा 25 'द्वारस्थाः' द्वारपालाः ततः कृतमपि प्रतिमाप्रतिसेवनं न ज्ञायते । 'इतरत्र तु' दण्डिक-कौटुम्बि
१ 'इतरे नाम' कौटुम्बिक दण्डिकाः ते प्राकृतिकस्य प्रतिपक्षभूताः। किमुक्तं भवति?तेन साहसिकाः, नाप्यपरीक्षितकारिणः, भयं च तेषां भवति । अत्राचार्यः प्राह-दण्डिककौटुम्बिका गुरुतराः, प्राकृतो लघुतरः । कुतः ? इत्याह-राजा प्रभुः, प्रभुत्वा भा०॥
२ तदेवाह भा०॥ ३°न्यु:-कोपः स एव प्रहरणम्-आयुधं येषां ते तथा एवंविधा मा मामैश्वर्या राज्याद्वा भ्रंशयेयुः । अपि च 'ते' राजादयः समीक्षितं कार्य कर्तुं शीलं येषां ते तथा, नाविमृश्य कार्य कुर्वन्तीत्यर्थः । अन्य भा० ॥ ४सूरिः खाभिप्रेतमर्थ समर्थयन्नाह भा० ॥ ५ च "से" तस्य सम्ब° कां ॥ ६ 'गुप्तयः' रक्षाप्रकाराः, न वा कां० । “गुप्तिः-अत्यर्थं रक्षणं" इति चूर्णौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org