________________
भाप्यगाथाः २४५३--२५०१ प्रथम उद्देशः ।
७०७ कुर्यात् । अथवा परिभोगसम्पत्तिं कृत्वा तत्रैव तस्य सागारिकं लापयेत् श्वानादिवत् । लग्नस्य च तस्य लेप्यकस्वामी अन्यो वा दृष्ट्वा ग्रहणा-ऽऽकर्षणादीनि कुर्यात् ।।२४९६॥ एतदेव व्याचष्टे
पंता उ असंपत्तीइ चेव मारिज खेत्तमादी वा।
संपत्तीइ वि लाएतु कड्डणादीणि कारेजा ।। २४९७ ॥ प्रान्ता पुनः 'असम्पत्त्यामेव' यावदद्याप्यसौ हस्तादिना न गृह्णाति तावन्मारयेत् , 'वा' अथवा । क्षिप्तचित्तम् आदिशब्दाद् यक्षाविष्टं वा कुर्यात् । सम्पत्त्यामपि सागारिकं लापयित्वा ग्रहणाऽऽकर्षणादीनि कारयेत् ॥ २४९७ ॥ अथ भोगार्थिनीपदं विवृणोति
भोगत्थिणी विगए कोउगम्मि खित्ताइ दित्तचित्तं वा ।
दट्टण व सेवंतं, देउलसामी करेज इमं ॥ २४९८ ॥ भोगार्थिनी देवता काणाक्षिकादिभिराकारैरुपप्रलोभ्य क्षुभितेन सह भोगान् भुत्त्वा विगते 10 भोगविषये कौतुके 'मा अपरया सह भोगान् भुताम्' इति कृत्वा तं 'क्षिप्तचित्तं वा' यक्षा. विष्टं वा दृप्तचित्तं वा कुर्यात् । अथवा तां देवतां सेवमानं तं साधुं दृष्ट्वा देवकुलखामी यथाभावेनेदं कुर्यात् ।। २४९८ ॥
__ तं चेव निवेई, बंधण निच्छुभण कडगमद्दे अ।
आयरिए गच्छम्मि य, कुल गण संघे य पत्थारो ॥ २४९९ ॥ 15 तमेव साधु क्रुद्धः सन् देवकुलखामी 'निष्ठापयति' मारयतीत्यर्थः । यदि वा प्रभुरसौ ततः खयमेव तं साधु बध्नीयात् , अप्रभुरपि प्रभुणा बन्धापयेत् । अथवा वसतेामाद् नगराद् देशाद् राज्याद्वा निष्काशयेत् । कटकं-स्कन्धावारः स यथा परविषयमवतीर्णः कस्याप्येकस्य राज्ञः प्रद्वेषेण निरपराधान्यपि ग्राम-नगरादीनि सर्वाणि मृदाति, एवमेकेन साधुनाऽकार्यं कृतं दृष्ट्वा यो यत्र दृश्यते स तत्र बाल-वृद्धादिरपि सर्वो मार्यते एवंविधं कटकमदं कुर्यात् । यद्वा यस्त- 20 स्याचार्यो गच्छः कुलं गणः सङ्घो वा तस्य 'प्रस्तारः' विनाशः क्रियेत ॥ २४९९ ॥ तथा
गिण्हणे गुरुगा छम्मास कडणे छेदों होइ ववहारे । पच्छाकडम्मि मूलं, उड्डहण-विरुंगणे नवमं ॥ २५०० ॥ उद्दावण निधिसए, एगमणेगे पदोस पारंची।
अणवठ्ठप्पो दोसु उ, दोसु उ पारंचिओ होइ ।। २५०१॥ 5 स साधुः प्रतिसेवमानो यदि देवकुलस्वामिना गृहीतः ततो ग्रहणे चत्वारो गुरुकाः । अथ हस्ते वा वस्त्रे वा गृहीत्वा राजकुलाभिमुखमाकृष्टस्तत आकर्षणे षड्लघवः । तेन साधुना स प्रत्याकर्षितस्ततः षण्मासा गुरवः । व्यवहारे प्रारब्धे च्छेदः । 'पश्चात्कृते' पराजिते मूलम् । 'उड्डहने' रासभारोपणादिके 'विरूपणे वा' नासिकादिकर्त्तनेन विरूपणाकरणे 'नवमम्' अनवस्थाप्यम् । एकस्मिन्ननेकेषु वा साधुषु प्रद्वेषतोऽपद्रावणे कृते निर्विषये वाऽऽज्ञप्ते प्रतिसेवक 30 आचार्यो वा पाराश्चिकः । एवं च 'द्वयोः' उड्डहन-विरूपणयोरनवस्थाप्यः, 'द्वयोस्तु' अपद्रावण१ च प्रत्यनीकदेवताप्रयोगत एव लेप्य° भा० ॥ २ कां० प्रती किं तत् ? इत्याह इत्यवतरणं वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org