________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २५ अभुक्तभोगिनां तु कौतुकमालिङ्गनादयश्च दोषा भवन्ति । एतेऽसन्निहिते प्रतिमारूपे तिष्ठतो दोषाः ॥ २४९२ ॥ अथ विकथापदमालिङ्गनादिपदं च विवृणोति----
सुट्ट कया अह पडिमा, विणासिया न वि य जाणसि तुमं पि ।
__ इय विकहा अहिगरणं, आलिंगणे भंगें भहितरा ॥ २४९३ ।। 6 एकः साधुर्ब्रवीति- सुष्ठ कृतेयं प्रतिमा, द्वितीयः प्राह–विनाशितेयं नापि च जानासि त्वमपि इत्येवं विकथा । ततश्चोत्तरप्रत्युत्तरिकां कुर्वतस्तयोरधिकरणं भवति । अथ कोऽप्युदीर्णमोहस्तां प्रतिमामालिङ्गेत् तत आलिङ्गने प्रतिमाया हस्त-पादादिभङ्गो भवेत् । सपरिग्रहायां च प्रतिमायां भद्रकेतरदोषाः-भद्रको हस्त-पादादिभङ्गे सञ्जाते सति पुनः संस्थापनं विदध्यात्,
प्रान्तस्तु ग्रहणा-ऽऽकर्षणादीनि कुर्यात् ॥ २४९३ ॥ 10 एतेऽसन्निहिते दोषा उक्ताः । सन्निहितेऽपि त एव वक्तव्याः, एते चाभ्यधिकाः
वीमंसा पडिणीयट्ठया व भोगत्थिणी व सन्निहिया ।।
काणच्छी उकंपण, आलाव निमंतण पलोभे ॥ २४९४ ॥ या तत्र सन्निहिता देवता सा त्रिभिः कारणैः साधुं प्रलोभयेत्-विमर्शाद्वा प्रत्यनीकार्थतया वा भोगार्थितया वा । विमर्शो नाम-'किमेघ साधुः शक्यः क्षोभयितुं न वा?' इति जिज्ञासा 1B तया प्रतिमायामनुप्रविश्य काणाक्षिकं वा उत्कम्पनं वा स्तनादीनां विदधीत, आलापं वा कुर्यात्
अमुकनामधेय ! कुशलं तव ? इत्यादि, निमन्त्रणं वा विदध्यात्-मया सह खामिन् ! भोगानुप क्ष्व, प्रलोभनं वा कक्षान्तरोरुदर्शनेन कुर्वीत ॥ २४९४ ॥
काणच्छिमाइएहिं, खोभिय उद्धाइयस्स भद्दा उ।
नासह इयरो मोह, सुवण्णकारेण दिटुंतो ॥ २४९५ ॥ 20 यदा काणाक्षिप्रभृतिभिराकारैः क्षोभितस्तदा 'गृह्णाम्येनाम्' इत्यभिप्रायेणोद्धावितस्ततस्तस्य सा
देवता यदि भद्रा ततो नश्यति । 'इतरः' साधुस्तस्यामदर्शनीभूतायां मोहं गच्छति, सम्मूढश्च तां द्रष्टुमिच्छति, हा कुत्र गताऽसि ? देहि सकृदात्मीयं दर्शनम्' इत्यादिप्रलापाँश्च करोति । अत्र च 'सुवर्णकारेण' चम्पानगरीवास्तव्येन अनङ्गसेनाख्येनं दृष्टान्तः, स च आवश्यकादिग्रन्थेषु सुप्रसिद्धः (आव० हारि० टीका पत्र २९६) ॥ २४९५ ॥ 25 अथ प्रत्यनीकार्थतयेति व्याचष्टे
वीमंसा पडिणीया, विद्दरिसण-ऽक्खित्तमादिणो दोसा।
असंपत्ती संपत्ती, लग्गस्स य कढणादीणि ॥ २४९६ ॥ प्रत्यनीकाऽपि 'विमर्शात्' काणाक्षिप्रभृतिभिराकारैः क्षोभयित्वा यदाऽसौ उद्घावितस्तदा "असंपत्ति" ति यावदसौ हस्तादिना नैव गृह्णाति तावद् 'विदर्शनं' विकृतं रूपं दर्शयति, अथवा 30'विदर्शनं नाम' अलममेव लोको लग्नं पश्यति । यद्वा सा तस्य साधोः क्षिप्तचित्तादिदोषान्
१°न हासा-प्रहासाव्यन्तरीलुब्धेन दृष्टा का० ॥ २ °सौ क्षुभित उद्धावितश्च तदा भा०॥
३ सा देवता तं साधुं क्षिप्तचित्तादिकं कुर्यात् । यावद्वा न गृह्णाति तावद् मारयेत् । अथवा भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org