SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ७०४ सनियुक्ति-लघुभाग्य-वृनिके बृहत्कल्पसूत्रे [सागारिकोपा० मू० २५ बहुविधं प्रायश्चित्तं तेनायं नियमः-तिष्ठतः स्थानप्रायश्चित्तमेव न प्रतिसेवनाप्रायश्चितम् , इतरथा अतिप्रसङ्गो भवति ॥ २४८५ ।। कथम् ? इति चेद् उच्यते नत्थि खलु अपच्छित्ती, एवं न य दाणि कोइ मुच्चिजा । कारि-अकारीसमया, एवं सइ राग-दोसा य ॥ २४८६ ॥ 5 यद्यपतिसेवमानस्यापि मूलादीनि भवन्ति तत एवं नास्ति कोऽप्यप्रायश्चित्ती, न चेदानीं कश्चित् कर्मबन्धान्मुच्येत, यः प्रतिसेवते तस्य कारिणोऽकारिणश्च समता भवति, एवं च प्रायश्चित्तदाने सति राग-द्वेषौ प्रामुत इति ।। २४८६ ॥ तदपि चाज्ञादिनिष्पन्नमिति (ग्रन्थाअम्-५५२० । सर्वग्रन्थानम्-१७७२०) पदं व्याख्यानयति मुरियादी आणाए, अणवत्थ परंपराएँ थिरिकरणं । मिच्छत्ते संकादी, पसज्जणा जाव चरिमपदं ॥ २४८७ ।। अपराधपदे वर्तमानस्तीर्थकृतामाज्ञाभङ्गं करोति तत्र चतुर्गुरु । अत्र च मौर्यः-मयूरपोषकवंशोद्भवैः आदिशब्दादपरैश्चाज्ञासारै राजभिदृष्टान्तः । तस्मिँश्च कालेऽसावनवस्थायां वर्तते तत्र चतुर्लधु । अनवस्थातश्च परम्परया 'स्थिरीकरणं' तदेवापराधपदमन्योऽपि करोतीत्यर्थः, तदा चासौ देशतो मिथ्यात्वमासेवते तत्र चतुर्लघु । अपराधपदे वर्तमानो विराधनायां साक्षादेव 15 वर्चते, परस्य च शङ्कादिकं जनयति यथैतद् मृषा तथाऽन्यदपि सर्वममीषां मृषैव । प्रसजना चात्र भोजिका-घाटिकादिरूपा । तत्र चरमं-पाराञ्चिकं यावत् प्रायश्चित्तं भवति ॥ २४८७ ॥ अथ नोदकः प्राह अवराहे लहुगयरो, किं णु हु आणाएँ गुरुतरो दंडो। _आणाए च्चिय चरणं, तब्भंगे किं न भग्गं तु ॥२४८८॥ 20 परः प्राह-जघन्यकेऽपरिगृहीते परिगृहीते वा तिष्ठति प्राजापत्यपरिगृहीतं वा जघन्यम सन्निहितमदृष्टं प्रतिसेवते उभयत्रापि चतुर्लघु, एवं स्थानतः प्रतिसेवनतश्चापराधे लघुतरो दण्ड उक्तः, आज्ञाभङ्गे चतुर्गुरुकमिति, अतः 'किम्' इति परिप्रश्ने, 'नुः' इति वितकें, 'हुः' इति गुर्वामन्त्रणे, किमेवं भगवन् ! आज्ञायां भमायां गुरुतरो दण्डो दीयते ? । सूरिराह-आज्ञयैव चरणं व्यवस्थितम् , तस्या भङ्गे कृते सति किं न भग्नं चरणस्य ? सर्वमपि भग्नमेवेति भावः, 25 अपि च लौकिका अप्याज्ञाया भङ्गे गुरुतरं दण्डं प्रवर्तयन्ति ॥ २४८८ ॥ तथा चात्र पूर्वोद्दिष्टं मौर्यदृष्टान्तमाह--- भत्तमदाणमडते, आणढवणंच छेत्तु वंसवती। गविसण पत्त दरिसए, पुरिसवइ सबालडहणं च ॥ २४८९ ॥ पाडलिपुत्ते नयरे चंदगुत्तो राया । सो य मोरपोसगपुत्तो त्ति जे खत्तिया अभिजाणंति 30 ते तस्स आणं परिभवंति । चाणकस्स चिंता जाया-आणाहीणो केरिसो राया ? तम्हा जहा एयस्स आणा तिक्खा भवइ तहा करेमि त्ति । तस्स य चाणक्कस्स कप्पडियत्ते भिक्खं अडं १वते यश्च न प्रतिसेवते तस्य कां० ॥ २ गाथेयं चूर्णिकृता“अवराहे” २४८८ गाथाऽनन्तरं व्याख्याताऽस्ति ॥ ३°स्थाप्ये व भा. कां. विना ॥ ४परप्र° भा० त० डे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy