________________
10
माष्यगाथाः २४७८-८५] प्रथम उद्देशः ।
७०३ मूला-ऽनवस्थाप्य-पाराञ्चिकानि भवन्तु ॥ २४८१ ॥ सूरिराह
पडिसेवणाएँ एवं, पसजणा तत्थ होइ एकेके ।
चरिमपदे चरिमपदं, तं पि य आणाइनिप्फन्नं ॥ २४८२ ॥ जघन्यादिप्रतिसेवनायाम् ‘एवं' मूला-ऽनवस्थाप्य-पाराञ्चिकानि दीयन्ते । यदि पुनः स्थितः सन् नैव प्रतिसेवते ततः कथं तानि भवन्तु ? । अथ प्रसङ्गमिच्छति तत एकैकस्मिन् प्राय- 5 श्चित्तस्थाने 'तत्र' अनन्तरोक्ते प्रसजना भवति' । तथाहि-तं साधुं तत्र स्थितं दृष्ट्वा कश्चिदविरतिकः शङ्कां कुर्यात् , नूनं प्रतिसेवनानिमित्तमत्रैष स्थित इति, ततो भोजिका-घाटिकादिदोषप्रसङ्ग इति । तथा चरमपेदं नाम-अदृष्टपदाद् दृष्टपदं तत्र 'चरमपदं' पाराश्चिकं यावद् भवति । यच्चाज्ञादिदोषनिष्पन्नं चतुर्गुरुकादि तदपि द्रष्टव्यमिति सङ्ग्रहगाथासमासार्थः ॥ २४८२ ॥ अथैनामेव विवरीषुराह
जइ पुण सव्यो वि ठितो, सेविजा होज चरिमपच्छित्तं ।
तम्हा पसंगरहियं, जं सेवइ तं न सेसाई ॥ २४८३ ॥ पुनःशब्दो विशेषणे । किं विशिनष्टि ? यद्येष नियमो भवेद् यस्तिष्ठति स सर्वोऽपि स्थितः सन् प्रतिसेवते ततो नोदक ! भवेत् तिष्ठत एव त्वदुक्तं चरमप्रायश्चित्तम् , तच्च नास्ति, सर्वस्यापि स्थितस्त्र प्रतिसेवकत्वाभावात् । तस्मात् प्रसङ्गरहितं यत् स्थानं सेवते तनिष्पन्नमेक प्रायश्चि । भवति, न 'शेषाणि' मूलादीनि ॥२४८३॥ अथ "चरमपदे चरमपद"मिति पदं भाक्यति
अद्दिट्ठाओ दिटुं, चरिमं तहि संकमाइ जा चरिमं ।
अहवण चरिमाऽऽरोवण, ततो वि पुण पावए चरिमं ॥ २४८४ ॥ अदृष्टपदाद् दृष्टपदं चरमम् , तत्र चरमपदे शङ्का-भोजिका-घाटिकादिक्रमेण चरमपदं पाराञ्चिकं याक्त् प्रामोति । आह यदि दृष्टं ततः कथं शङ्का ननु निःशङ्कितमेव ? उच्यते-दूरेण " गच्छतो दृष्टेऽपि पदार्थे सम्यगविभाविते शङ्का भवति । अथवा या यत्र 'चरमाऽऽरोपणा' यया जघन्ये चरमं मूलं मध्यमे चरममनवस्थाप्यं उत्कृष्टे चरमं पाराश्चिकं तत् तत्र चरमपदम् । 'ततोऽपि' चरमपदात् शङ्कादिभिः पदैः 'चरम' पाराञ्चिकं पुनः प्राप्नोति ॥ २४८४ ॥
अहवा आणाइविराहणाउ एक्किकियाउ चरिमपदं ।
पावइ तेण उ नियमो, पच्छित्तिहरा अइपसंगो ॥ २४८५॥ 25 अथवा आज्ञा-ऽनवस्था-मिथ्यात्व-विराधनापदानां मध्ये यद् विराधनापदं तच्चरमम् । सा च विराधना द्विधा-आत्मनि संयमे च । तस्या एकैकस्याः सकाशात् 'चरमपदं' पाराश्चिक प्रामोति । तत्र प्रतिमाया यः खामी तेन दृष्ट्वा प्रतापितस्यात्मविराधनायां परितापनादिक्रमेण पाराञ्चिकम् । संयमविराधनायां तु तस्याः प्रतिमाया हस्ताद्यवयवे भने भूयः संस्थाप्यमाने सति "छक्काय चउसु लहुगा" (गा० ४६१) इत्यादिक्रमेण पाराञ्चिकम् । यत एवं प्रसङ्गतो 30 १ति । कथम् ? इति चेत् उच्यते-तं साधु भा० ॥
२°पद-दृष्टं तत्र 'चरमपदं पाराञ्चिकं यावद् भवति । तत्रापि च प्रायश्चित्तमाशादिदोपनिष्पन्नं पृथग् द्रष्टव्यमिति सङ्ग भा० ॥
३°ति नियुक्ति गाथा कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org