________________
८०२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २५ गुरवः, सन्निहितेऽदृष्टे चतुर्गुरवः, दृष्टे षड्लघवः । कौटुम्बिकपरिगृहीते जघन्येऽसन्निहितेऽदृष्टे प्रतिसेविते षड्लघवः, दृष्टे षड्गुरवः, सन्निहितेऽदृष्टे षड्गुरवः, दृष्ट लघुवाण्मासिकच्छेदः । दण्डिकपरिगृहीतं जघन्यकमसन्निहितमदृष्टं प्रतिसेवितं लघुषाण्मासिकच्छेदः, दृष्टे मुरुषाण्मासिकच्छेदः, सन्निहितेऽदृष्टे गुरुषाण्मासिकच्छेदः, दृष्टे मूलम् । एतद् जघन्यं दिव्यप्रतिमारूपं सेवमानस्य प्रायश्चित्तं भणितम् । प्रसजना नाम-दृष्टे सति शङ्का-भोजिका-घाटिकादीनां ग्रहणा-ऽऽकर्षणप्रभृतीनां वा दोषाणां परम्परया प्रसङ्गः, तां मुक्त्वा एतद् प्रायश्चित्तं द्रष्टव्यम्, तन्निष्पन्नं तु पृथगापद्यत इत्यर्थः ॥ २४७७ ॥ अथ मध्यमे प्रायश्चित्तमाह
चउगुरुग छ च लहु गुरु, छम्मासिओं छेदों लहुओं गुरुगो य ।
मूलं अणवटुप्पो, मज्झिम' पसजणं मोत्तुं ॥ २४७८ ।।। 1. मध्यमे प्राजापत्यपरिगृहीतेऽसन्निहितेऽदृष्टे प्रतिसेविते चतुर्गुरवः, दृष्टे षड्लघवः, सन्निहितेऽदृष्टे षड्लघवः, दृष्टे षड्गुरवः । कौटुम्बिकपरिगृहीतेऽसन्निहितेऽदृष्टे षड्गुरवः, दृष्टे लघुपाण्मासिकच्छेदः, सन्निहितेऽदृष्टे लघुषाण्मासिकच्छेदः, दृष्टे गुरुषाण्मासिकच्छेदः । दण्डिक परिमृहीतेऽसन्निहितेऽदृष्टे मुरुषाण्मासिकच्छेदः, दृष्टे मूलम् , सन्निहितेऽदृष्टे मूलम् , दृष्टेऽनवस्थाप्यम् । एतद् मध्यमके प्रसजनां मुक्त्वा प्रायश्चित्तं द्रष्टव्यम् ॥ २४७८॥ उत्कृष्टविषयमाह16
तक छेदो लहु गुरुगो, छम्मासितों मूल सेवमाणस्स ।
अणवठ्ठप्पो पारंचि, उक्कोसे पसज्जणं मोत्तुं ।। २४७९ ॥ उत्कृष्ट प्राकृतपरिगृहीतेऽसन्निहितेऽदृष्टे प्रतिसेविते लघुपाण्मासिकं तपः, दृष्टे मुरुषाण्मासिक तपः, सन्निहितेऽदृष्टे गुरुषाण्मासिकं तपः, दृष्टे लघुषाण्मासिकच्छेदः । कौटुम्बिकपरिगृहीतेऽसनिहितेऽदृष्टे लघुषाण्मासिकच्छेदः, दृष्टे गुरुषाण्मासिकच्छेदः, सन्निहितेऽदृष्टे गुरुषाण्मासिक2८च्छेदः, दृष्टे मूलम् । दण्डिकपरिगृहीतेऽसन्निहितेऽदृष्टे मूलम् , दृष्टेऽजवस्थाप्यम् , सनिहितेऽ. हटेऽनवस्थाप्यम्, दृष्टे पाराश्चिकम् । एवमुत्कृष्टे दिव्यप्रतिमारूपे प्रसजनां मुत्य प्रायश्चित्तमवसातव्यम् ॥२४७९॥ अथ यथा चारणिकाया अभिलापः कर्त्तव्यस्तों भाष्यकृदुपदर्शयति
पायावच्चपरिग्गहें, जहन सनिहियए असनिहिए ।
दिवादिद्वे सेवइ, एसाऽऽलावो उ सव्वत्थ ॥ २४८० ॥ 28 प्राजापत्यपरिगृहीते जघन्येऽसन्निहिते सन्निहितेऽदृष्टे दृष्टे च सेवते, गाथायामसन्निहिताऽदृष्टपदयोर्बन्धानुलोम्यात् पश्चान्निर्देशः, 'एषः' ईदृशः 'आलापः' उच्चारणविधिः 'सर्वत्र' कौटुम्बिकपरिगृहीतादौ मध्यमादौ च कर्तव्यः ॥ २४८० ॥ अत्र नोदकः प्राह
जम्हा पढमे मूलं, विइए अणवट्ठों तइऍ पारंची।
तम्हा ठायंतस्सा, मूलं अणवट्ठ पारंची ॥ २४८१ ॥ 30 यस्मात् 'प्रथमे' जघन्ये प्रतिसेवमानस्य चतुर्लघुकादारब्धं मूलं यावत् प्रायश्चित्तं भवति, _ 'द्वितीये' मध्यमे चतुर्गुरुकमादौ कृत्वा अनवस्थाप्यम् , 'तृतीये' उत्कृष्टे षड्लघुकादारब्धं पाराश्विकं यावद् भवति, तस्मात् तिष्ठत एव स्थाननिष्पन्नानि जघन्यमध्यमोत्कृष्टेषु यथाक्रम १°वट्ठा पारंची, उ° ता० ॥ २ °था दर्श° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org