________________
भाष्यगाथाः २४६८-७७ ] प्रथम उद्देशः ।
७०१ व्यानि । कौटुम्बिकपरिगृहीते एतान्येव कालगुरुकाणि । दण्डिकपरिगृहीते एतान्येव तपसा गुरुकाणि ॥ २४७२ ॥ __इदं च यसाजघन्यादिविभागेन निर्दिष्टं सन्निहिता-ऽसन्निहितभेदेन न विशेषितं तस्मादेतदोपविभागप्रायश्चित्तमभिधीयते । अथ विभागप्रायश्चित्तं निरूपयितव्यम् , तत्र चैतान्येव जघन्यमध्यमोत्कृष्टानि सन्निहिता-सन्निहितभेदाभ्यां विशेष्यमाणानि षट् स्थानानि भवन्ति, 5 एतेषु प्रायश्चित्तमाह
चत्तारि य उग्धाता, पढमे बिइयम्मि ते अणुग्घाया। तइयम्मि अणुग्घाया, चउत्थ छम्मास उग्धाता ॥ २४७३ ॥ पंचमगम्मि वि एवं, छटे छम्मास होतऽणुग्घाया।
असनिहिए सन्निहिए, एस विही ठायमाणस्स ॥ २४७४ ॥ 10 प्रथमं नाम-जघन्यमसन्निहितं द्वितीयं-जघन्यं सन्निहितं तृतीयं-मध्यममसन्निहितं चतुर्थमध्यमं सन्निहितं पञ्चमम्-उत्कृष्टमसन्निहितं षष्ठम्-उत्कृष्टं सन्निहितम् । अत्रायमुच्चारणविधिःजघन्यकेऽसन्निहिते प्राजापत्यपरिगृहीते तिष्ठति चत्वार उद्धाता मासाः, सन्निहिते तिष्ठति 'त एवं चत्वारो मासा अनुद्धाताः, मध्यमकेऽसन्निहिते चत्वारो मासा अनुद्धाताः, सन्निहिते षण्मासा उद्धाताः, उत्कृष्टेऽसन्निहिते षण्मासा उद्धाताः, सन्निहिते षण्मासा अनुद्धाताः ।। ॥ २४७३ ॥ २४७४ ॥ एषोऽसन्निहिते सन्निहिते च तिष्ठतः प्रायश्चित्तविधिरुक्तः । अथ प्राजापत्यादिविशेषत एनमेव विशेषयति
पढमिल्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं ।
बिइयम्मि अ कालगुरू, तवगुरुगा होति तइयम्मि ॥ २४७५ ॥ 'प्रथमे स्थाने' प्राजापत्यपरिगृहीते एतानि प्रायश्चित्तानि द्वाभ्यामपि लघुकानि, तद्यथा-20 तपसा कालेन च । 'द्वितीये' कौटुम्बिकपरिगृहीते तान्येव कालगुरुकाणि । 'तृतीये' दण्डिकपरिगृहीते एतान्येव तपोगुरुकाणि ॥ २४७५ ॥ स्थानप्रायश्चित्तमेव प्रकारान्तरेणाह
__ अहवा भिक्खुस्सेयं, जहन्नगाइम्मि ठाणपच्छित्तं ।
गणिणो उवरिं छेदो, मूलायरिए पदं हसति ॥ २४७६ ।। अथवा यदेतद् जघन्यादौ चतुर्लघुकादारभ्य षड्गुरुकावसानं स्थानप्रायश्चित्तमुक्तं तद् भिक्षो-25 रेव द्रष्टव्यम् । गणी-उपाध्यायस्तस्य षगुरुकादुपरि च्छेदाख्यं प्रायश्चित्तपदं वर्द्धते, एकं पदं चतुर्लघुकाख्यमधो इसति, चतुर्गुरुकादारभ्य च्छेदे तिष्ठतीत्यर्थः । आचार्यस्य षड्लघुकादारब्धं मूलं यावत् प्रायश्चित्तम् , अत्राप्येकं पदमुपरि वर्द्धते अधस्तादेकं पदं हसतीति ॥ २४७६ ॥ गतं स्थानप्रायश्चित्तम् । अथ प्रतिसेवनाप्रायश्चित्तमाह
चत्तारि छ च लहु गुरु, छम्मासितों छेदों लहुग गुरुगो य। 30
मूलं जहन्नगम्मि, सेवंति पसजणं मोत्तुं ॥ २४७७ ॥ प्राजापत्यपरिगृहीते जघन्येऽसन्निहितेऽदृष्टे प्रतिसेवमाने चत्वारो लघवः, दृष्टे चत्वारो १ अथामून्येव प्रायश्चित्तानि तप कालाभ्यां विशेषयन्नाह का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org