________________
७००
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २५ उच्यन्ते । एतत् त्रिविधमपि प्रत्येकं त्रिधा जघन्यमध्यमोत्कृष्टभेदात् ॥ २४६७ ॥ तत्र दिव्यस्य जघन्यादिभेदत्रयमाह
वाणंतरिय जहन्नं, भवणवई जोइसं च मज्झिमगं ।
वेमाणिय उक्कोसं, पगयं पुण ताण पडिमासु ॥ २४६८॥ 6 दिव्येषु यद् वानमन्तरिकं रूपं तद् जघन्यम् , भवनपति-ज्योतिष्कयोर्मध्यमम् , वैमानिकरूपमुत्कृष्टम् । अत्र च तेषां' वानमन्तरादीनां याः प्रतिमास्ताभिः 'प्रकृतम्' अधिकारः, सागारिकोपाश्रयस्य प्रस्तुतत्वात् , तत्र च प्रतिमानामेव सद्भावात् ॥ २४६८ ।। प्रकारान्तरेण दिव्यप्रतिमानां जघन्यादिभेदानाह
___ कढे पुत्थे चित्ते, जहन्नयं मज्झिमं च दंतम्मि । [आव.नि. १३५] 10 सेलम्मि य उक्कोसं, जं वा रूवाउ निप्फनं ॥ २४६९ ॥ ____ या दिव्यप्रतिमा काष्ठकर्मणि वा पुस्तकर्मणि वा चित्रकर्मणि वा क्रियते तद् जघन्यं दिव्यरूपम् । या तु हस्तिदन्ते क्रियते तद् मध्यमम् । या पुनः शैले चशब्दाद् मणिप्रभृतिषु च क्रियते तदुत्कृष्टम् । यद्वा रूपाद् निष्पन्नं जघन्यादिकं द्रष्टव्यम्-या दिव्यप्रतिमा विरूपा
तद जघन्यं दिव्यरूपम् , या तु मध्यमरूपा तन्मध्यमम् , या पुनः सुरूपा तदुत्कृष्टम् । अत्र 16 चौघतः प्रतिमायुते उपाश्रये तिष्ठतश्चत्वारो लघुकाः प्रायश्चित्तम् ॥ २४६९ ॥ अथौघविभागतः प्रायश्चित्तमाह
ठाण-पडिसेवणाए, तिविहे वी दुविहमेव पच्छित्तं ।
लहुगा तिन्नि विसिट्ठा, अपरिगहे ठायमाणस्स ॥ २४७० ॥ 'त्रिविधेऽपि' जघन्यमध्यमोत्कृष्टभेदभिन्ने दिव्ये प्रतिमायुते तिष्ठतो द्विविधं प्रायश्चित्तम्20 स्थाननिष्पन्नं प्रतिसेवनानिष्पन्नं च । तत्र स्थाननिष्पन्नमिदम्-दिव्ये प्रतिमायुतेऽपरिगृहीते तिष्ठतस्त्रयश्चतुर्लघुकास्तपः-कालविशिष्टाः, तद्यथा-जघन्ये चत्वारो लघुकास्तपसा कालेन च लघुकाः, मध्यमे त एव कालगुरुकाः, उत्कृष्ट त एव तपोगुरुकाः ॥ २४७० ॥ अथ परिगृहीते प्रायश्चित्तमाह
चत्तारि य उग्धाया, पढमे बिइयम्मि ते अणुग्धाया । छम्मासा उग्घाया, उक्कोसे ठायमाणस्स ॥ २४७१॥ पायावच्चपरिग्गहें, दोहि वि लहु होंति एते पच्छित्ता ।
कालगुरू कोडंबे, दंडियपारिग्गहे तवसा ॥ २४७२ ।। प्रथम-जघन्यं तत्र तिष्ठतश्चत्वारः 'उद्धातिमाः' लघवो मासाः । द्वितीयं-मध्यमं तत्र 'त एव' चत्वारो मासाः 'अनुद्धाता' गुरुका इत्यर्थः । उत्कृष्ट तु तिष्ठतः षण्मासा उद्धाताः, षड्३८ लघव इत्यर्थः ॥ २४७१ ।।
एतानि च प्रायश्चित्तानि प्राजापत्यपरिगृहीते 'द्वाभ्यामपि' तपः-कालाभ्यां मधुकानि द्रष्ट१त् । गाथायां "पडिमासु" त्ति तृतीयार्थे सप्तमी ॥ २४६८ ॥ कां० २ अथात्रैव विभा° भा० का• विना ॥ ३°हे दुविहं तु होति पच्छित्तं ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org