________________
भाष्यगाथाः २४५८-६७] प्रथम उद्देशः।
६९९ 'ते' साधव एवं विधेन वसतिदोषेण 'संयमयोगेषु' आवश्यकव्यापारेषु सीदितुमारब्धाः । ततश्च 'जतु' लाक्षा यथा तदमिना तप्यमानं गलति एवं रागामिना तप्यमानं चारित्रमपि परिगलतीति ज्ञातव्यम् ॥ २४६२ ॥
__ उनिक्खंता केई, पुणो वि सम्मेलणाएँ दोसेणं ।
वचंति संभरंता, भंतूण चरित्तपागारं ॥ २४६३ ॥ तस्यां वसतौ स्त्रीरूपादिसम्मेलनाया दोषेण 'केचिद्' मन्दभाग्याः 'उन्निष्क्रान्ताः' उत्पत्रजिताः, ततश्चारित्रमेव प्राकारः-जीवनगररक्षाक्षमत्वाचारित्रप्राकारस्तं भक्त्वा तान्येवस्त्रीरूपादीनि संस्मरन्तः पुनरपि गृहवासं व्रजन्ति ॥ २४६३ ॥ ततः किमभूत् ? इत्याह
एगम्मि दोसु तीसु व, ओहावितेसु तत्थ आयरिओ। मूलं अणवटुप्पो, पावइ पारंचियं ठाणं.॥ २४६४ ॥
10 यद्येक उन्निष्कामति ततो मूलम् , द्वयोरवधावतोरनवस्थाप्यम् , त्रिप्ववधावमानेषु तत्राचार्यः पाराश्चिकं स्थान प्राप्नोति, यस्य वा वशेन तत्र स्थितास्तस्येदं प्रायश्चित्तमिति ॥ २४६४ ॥ गतं द्रव्यसागारिकम् । अथ भावसागारिकमाह
अट्ठारसविहऽभं, भावउ ओरालियं च दिव्वं च ।।
मण-वयस-कायगच्छण, भावम्मि य रूव संजुत्तं ॥ २४६५॥ 15 अष्टादशविधमब्रह्म भवति । तस्य चौदारिक-दिव्यलक्षणौ द्वौ मूलभेदौ । तत्रौदारिकं नवविधम्-औदारिकान् कामभोगान् मनसा गच्छति मनसा गमयति गच्छन्तमन्यं मनसैवानुजानीते, एवं वाचाऽपि त्रयो भेदाः प्राप्यन्ते, कायेनापि त्रयः, एतैस्त्रिभिस्त्रिकैनव भेदा भवन्ति । एवं दिव्येऽप्यब्रह्मणि नव भेदा लभ्यन्ते । एवमेतदष्टादशविधमब्रह्म भावसागारिक भवति । अथवा रूपंवा 'संयुक्तं वा' रूपसहगतं यदब्रह्मभावोत्पत्तिकारणं तदपि भावसागारिकम् ॥२४६५। 30 एतदेव स्पष्टयति
अहव अभं जत्तो, भावो रूवाउ सहगयाओ वा।
भूसण-जीवजुयं वा, सहगय तव्यजिय रूवं ॥ २४६६ ।। अथवा यतो रूपाद्वा रूपसहगताद्वा अब्रह्मरूपो भाव उत्पद्यते तदपि कारणे कार्योपचाराद् भावसागारिकम् , यथा “नडलोदकं पादरोगः" इति । तत्र यत् स्त्रीशरीरं भूषणसंयुक्तमभूषितं 23 वा यद् जीवयुक्तं तद् रूपसहगतं मन्तव्यम् । यत् पुनः स्त्रीशरीरमेव 'तद्वर्जितं' भूषणविरहितं जीववियुक्तं वा तद् रूपमुच्यते ॥ २४६६ ॥
तं पुण रूवं तिविहं, दिव्वं माणुस्सयं तिरिक्खं च।
पायावच्च-कुडुंबिय-दंडियपारिग्गहं चेव ॥ २४६७ ॥ 'तत् पुनः' अनन्तरोक्तं रूपं त्रिविधम् -दिव्यं मानुष्यं तैरश्चं च । पुनरेकैकं विधा- 30 प्राजापत्यपरिगृहीतं कौटुम्बिकपरिगृहीतं दण्डिकपरिगृहीतं चेति । प्राजापत्याः प्राकृतलोका
१°ति । अथ किमिदं रूपं रूपसहगतं वा? इत्यत आह-"भूसण" इत्यादि, तत्र कां०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org