SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २४५०-५७ ] प्रथम उद्देशः । ६९७ इह 'अगीतं' गीतविरहितं नृत्तं भवति । यत् पुनर्गीतयुक्तं तद् नाटकं ज्ञातव्यम् । गीतं पुनश्चतुर्की-तन्त्रीसमं १ तालसमं २ ग्रहसमं ३ लयसमं ४ चेति । 'शयनं' पल्यङ्कादि । एतदाभरणादिकं यत् पुरुषोपभोगयोग्यं तत् स्वस्थाने 'द्रव्यं' द्रव्यसागारिकं निर्ग्रन्थानामिति भावः । अत्र च भोजन-गन्धा-ऽऽतोद्य-शयनानि द्वयोरपि स्त्री-पुरुषपक्षयोः साधारणत्वाद् द्रव्यसागारिकमेव, शेषाणि तु साधु-साध्वीनां स्वस्थानयोग्यानि द्रव्यसागारिकं परस्थानयोग्यानि तु भावसागा-5 रिकम् ॥ २४५३ ॥ एतेषु प्रायश्चित्तमाह एकिकम्मि य ठाणे, भोअणवजे य चउलहू इंति । चउगुरुग भोअणम्मि, तत्थ वि आणाइणो दोसा ॥ २४५४॥ 'एकैकस्मिन्' रूपा-ऽऽभरणादौ 'स्थाने' द्रव्यसागारिके भोजनवर्जे तिष्ठतां चतुर्लघवः, भोजनसागारिके चतुर्गुरवः । केषाञ्चिन्मतेनाभरण-वस्त्रयोरपि चतुर्गुरवः । तत्राप्याज्ञादयो दोषाः, 10 तन्निष्पन्नं पृथक् प्रायश्चित्तमिति भावः ॥ २४५४ ॥ तथा को जाणइ को किरिसो, कस्स व माहप्पया समत्थत्ते । धिइदुब्बला उ केई, डेविति तओ अगारिजणं ॥ २४५५ ॥ को जानाति नानादेशीयानां साधूनां मध्ये कः कीदृशः कीदृक्परिणामः ?, कस्य वा कीदृशी 'महात्मता' महाप्रभावता 'समर्थत्वे' सामर्थ्य लोभनिग्रहं ब्रह्मव्रतपरिपालनं वा प्रतीत्य 16 विद्यते ?, परचेतोवृत्तीनां निरतिशयैरनुपलक्ष्यत्वात् । ततो ये केचिद् धृतिदुर्बलास्ते तत्र रूपाऽऽभरणादिभिराक्षिप्तचित्ताः परित्यक्तसंयमधुरा अगारीजनं 'डेविंति' गच्छन्ति, परिभुञ्जते इत्यर्थः ॥ २४५५ ॥ तथा केइत्थ भुत्तभोगी, अभुत्तभोगी य केइ निक्खंता । रमणिज लोइयं ति य, अम्हं पेतारिसा आसी ॥ २४५६ ॥ 20 केचिद् अत्र' गच्छमध्ये भुक्तभोगिनो निष्क्रान्ताः केचित्त्वभुक्तभोगिनः, तेषां चोभयेषामप्येवं भावः समुत्पद्यते-रमणीयमिदं लौकिकं चरितं यत्रैवं वस्त्रा-ऽऽभरणानि परिधीयन्ते, विविधखाद्यकादीनि यथेच्छं भुज्यन्ते, अस्माकमपि गृहाश्रमे स्थितानामेतादृशा भोगा आसीरन् ॥ २४५६ ॥ इदमेव व्यनक्ति एरिसओ उवभोगो अम्ह वि आसि ण्ह इण्हि उजल्ला । दुक्कर करेमु भुत्ते, कोउगमियरस्स दट्टणं ॥ २४५७ ॥ ईदृगेव गन्ध-माल्य-ताम्बूलाद्युपभोगः पूर्वमस्माकमप्यासीत् , "ह" इति निपातः पादपूरणे, इदानीं तु वयं 'उज्जल्लाः' उत्-प्राबल्येन मलिनशरीरा अलब्धसुखाखादाश्च 'दुष्करं' केशश्मशुलुश्चन-भूमिशयनादि कुर्महे । इत्यं भुक्तभोगी चिन्तयति । इतरः-अभुक्तभोगी तस्य रूपा-ऽऽभरणादिकं दृष्ट्वा कौतुकं भवेत् ॥ २४५७ ॥ १ ततः को दोषः ? इत्यत आह-0-30 सति-कोउगेण दुण्णि वि, परिहिज लइज वा वि आभरणं । १एतचिहस्थः पाठः कां• पुस्तक एव ॥२°नामीदृशं खादन-पानादिकमासीत् ॥२४५६॥ किञ्च भा०॥ ३एतन्मध्यगतः पाठः भा० नास्ति ॥ ४°तः किम् ? इत्याह का.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy