SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ६९६ सनियुक्ति-लघुभप्यवृत्तिके बृहत्कल्पसूत्रे [ सागारिकोपा० सू० २५ दोषेण मा सागांरिकेऽपि प्रतिश्रये वसेयुः । कुतः ? इत्याह- सागारिकापाश्रये निवसतोमा 'त एव' उत्थान-निवेशनादिविषया निश्रादोषा भवेयुः, अतः सागारिकसूत्रं प्रारभ्यत इति ॥२४४९ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या - नो कल्पते निर्मन्थानां वा निर्मन्थीनां वा 'सागारिके' सीगारिकं-द्रव्यतो भावतश्च वक्ष्यमाणलक्षणं तदत्रास्ति इति व्युत्पत्तेः अभ्रादित्वाद् b अप्रत्यये सागारिकः, ईदृशे उपाश्रये वस्तुमिति सूत्रसङ्क्षेपार्थः ॥ अथ निर्युक्तिविस्तरःसागारियनिक्खेवो, चउव्विहो होइ आणुपुव्वीए । नामं ठवणा दविए, भावे य चउन्विहो भेदो ॥ २४५० ॥ सागारिकपदस्य निक्षेपश्चतुर्विध आनुपूर्व्या भवति, तद्यथा - नाम्नि स्थापनायां द्रव्ये भावे चेति । एष चतुर्विघो मेदः || २४५० ॥ तत्र नाम - स्थापने गतार्थे, द्रव्यतो नोआगमतो 10 ज्ञशरीर - भव्यशरीरव्यतिरिक्तं द्रव्यसागारिकमाह रूवं आभरणविही, वत्थालंकार भोयणे गंधे । आउज नट्ट नाडग, गीए सयणे य दव्वम्मि ।। २४५१ ॥ रूपमाभरणविधिर्वस्त्रालङ्कारो भोजनं गन्धा आतोद्यं नृत्तं नाटकं गीतं शयनीयं च एतद् द्रव्यसागारिकेम् || २४५१ ॥ तत्र रूपपदं व्याख्याति — जं कटुकम्ममाइसु, रूवं सट्टाणें तं भवे दव्वं । जं वा जीवविमुकं, विसरिसरूवं तु भावम्मि ॥ २४५२ ॥ यत् 'काष्ठकर्मादिषु' काष्ठकर्मणि दा चित्रकर्मणि वा लेप्यकर्मणि वा पुरुषरूपं स्त्रीरूपं वा निर्मितं तत् खस्थाने द्रव्यसागारिकं भवेत् । स्वस्थानं नाम - निर्ग्रन्थानां पुरुषरूपं निर्ग्रन्थीनां तुरूपम् । यत्तु विसदृशरूपं तद् भावसागा रिकम्, निर्ग्रन्थानां स्त्रीरूपं निर्ग्रन्थीनां तु पुरुष20 रूपं भावसागारिकमित्यर्थः । यद् वा जीवविप्रमुक्तं पुरुषशरीरं स्त्रीशरीरं वा तदपि स्वस्थाने द्रव्यसागारिकं परस्थाने तु भावसागारिकमिति ॥ २४५२ ॥ 15 अथ "आभरणविही" इत्यादि व्याख्यायते - आभरणं - कटकादि तस्य विधिः - भेदा आभरणविधिः । वस्त्रमेवालङ्कारो वस्त्रालङ्कारः; यद्वा वस्त्राणि चीनांशुकादीनि, अलङ्कारो द्विधा केशालङ्कार-माल्यालङ्कारभेदात् । भोजनमशन-पान - खाद्य - स्वाद्यभेदाच्चतुर्विधम् । गन्धः-व :-कोष्ठ25 पुट्पाकादिः । आतोद्यं चतुर्विधम् — ततं विततं धनं शुषिरं च । तत्र — तसं वीणाप्रभृतिकं, विततं मुरजादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥ नृत्तमपि चतुर्विधम् तद्यथा— अञ्चितं रिभितम् आरभडं भसोलम्, एते चत्वारोऽपि भेदा नाट्यशास्त्रप्रसिद्धाः । नाटकम् - अभिनयविशेषः । अथवा नहं होइ अगीयं, गीयजुयं नाडयं तु नायव्वं । आभरणादी पुरिसोवभोग दव्वं तु सट्टाणे ।। २४५३ ॥ 30 १ सागारिकयुक्ते उपाश्रये वस्तु' भा० कां० ॥ २ 'कमिति निर्युक्तिगाथासमासार्थः ॥२४५१ ॥ अथैनामेव विवरीषुः प्रथमतो रूप कां० ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy