SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २४४३-४९] प्रथम उद्देशः । त्वनिश्रया वस्तव्यम् । यदि निष्कारणे सागारिकनिश्रया बसन्ति ततश्चल्लासे लघुकाः । अथ कारणेऽनिश्रया वसन्ति ततश्चत्वारो गुरुकाः ॥ २४४६ ॥ अर्थ निष्कारणे सागारिकनिश्रया तिष्ठतां दोषानाह उद्धेत निवेसिंते, भोजण-पेहासु सारि मोए अ। सज्झाय वंभगुची, असंगता तित्थऽवण्यो य ॥ २४४७॥ कोऽपि साधुरुत्तिष्ठन् वा निविशमानो वा अपावृतीभवेत् तं दृष्ट्य पुरुषाः स्त्रियो वा हसन्ति उड्डञ्चकान् वा कुर्वन्ति । भोजन-समुद्देशनं तत्र मण्डल्यां तुम्बकेषु वा समुद्दिशतो दृष्ट्वा ब्रवीरन्-अहो! अमी अशुचय इति । प्रेक्षा-प्रत्युपेक्षणा तस्यां विधीयमानायां "सारि" ति ते सागारिका उड्डश्चकान् कुर्युः । “मोए" त्ति निशि मोकेनाचमने कायिकीव्युत्सर्जने वोड्डाहं कुर्युः । 'खाध्यायम्' अधीयमानं परावर्त्यमानं वा श्रुत्वा कर्णाहृतेनागममन्ति । स्त्रीणां चाङ्गप्रत्यनादौ 10 विलोक्यमाने ब्रह्मचर्यस्यागुप्तिः । तथा लोकोऽपि ब्रूयात्---"असंगय" ति यैः किलासङ्गता प्रतिपन्ना तैः स्त्रीरहिते प्रतिश्रये स्थातव्यमित्येतदप्येते न जानन्ति । तीर्थस्य चाव! भवति, सर्वेऽप्येते एतादृशा इति । यत एते दोषा अत उत्सर्गतः सागारिकस्यानिश्रया बस्तव्यम् । कारणे तु निश्रयाऽपि कल्पते वस्तुम् ॥ २४४७ ॥ तच्चेदम् तेणा सावय मसगा, कारण निकारणे य अहिगरणं । एएहिं कारणेहि, वसंति नीसा अनीसा वा ॥ २४४८॥ स्तेनाः श्वापदा वा यत्रोपद्रवन्ति तत्र ये गृहस्थाः परित्राणं कुर्वते तत्र तन्निश्रया वस्तव्यम् । मशका बाऽन्यत्राभिद्रवन्ति ततो निश्रयाऽपि वस्तव्यम् । निष्कारणे तु निश्रया वसतामप्काययन्त्रवाहनादिकमधिकरणं भवेत् । एतैः कारणैर्निश्रया वा अनिश्रया वा यथायोगं चसन्तीति ॥२४४८३ ॥ सागारिकनिश्रामकृतं समाप्तम् ॥ 15 20 सा गा रि को पा श्र य प्रकृ त म् सूत्रम् नो कप्पइ निग्गंथाण वा निगंथीण वा सागारिए उवस्सए वत्थए २५॥ अस्य सम्बन्धमाह निस्स त्ति अइपसंगेण मा हु सागारियम्मि उ वसिजा । ते चेव निस्सदोसा, सागारिएँ निवसतो मा हु॥२४४९॥ 'निर्ग्रन्थीनां सागारिकनिश्रयैव निर्ग्रन्थानामपि कारणे निश्रया वस्तुं कल्पते' इत्युक्तेऽतिप्रसङ्ग१ भुंज त• डे० ता०॥ . 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy