________________
10
भाप्यगाथाः २४३५-४२] प्रथम उद्देशः ।
६९३ ___ 'द्वाभ्यामपि' आचार्य-प्रवर्तिनीलक्षणाभ्यां पक्षाभ्यां यद्यप्यार्याः सुसंवृता वर्तन्ते तथापि तासां गृहिणः-सागारिकस्य निश्रामिच्छन्ति भगवन्तः । कुतः ? इत्याह—'बहुसङ्गृहीताः' बहुभिःआचार्यादिभिश्चिन्तकैः परिगृहीता आर्या स्थिरा भवति इन्द्रयष्टिरिव । यथा खल्विन्द्रयष्टिर्बहीभिः इन्द्रकुमारिकाभिर्वद्धा सती निष्कम्पा भवति एवमियमपि ॥ २४३८ ॥ किञ्च
पत्थितो वि य संकइ, पत्थिजंतो वि संकती बलिणो ।
सेणा वह य सोभइ, बलवइगुत्ता तहऽजा वि ॥ २४३९ ॥ प्रार्थयन्नप्या- समर्थसागारिकनिश्रितां तरुणादिजनः 'शङ्कते' बिभेतीत्यर्थः । तथा प्रार्थ्यमानोऽपि संयतीजनः 'बलिनः' समर्थस्य शय्यातरस्य शङ्कते । अपि च यथा सेना बलपतिनासेनानायकेन यथा वा वधूर्बलवता श्वशुरपक्षेण पितृपक्षेण च गुप्ता-रक्षिता शोभते तथा आर्याऽपि बलवता शय्यातरेण परिगृहीता सती विराजते ॥ २४३९ ॥ अमुमेवार्थं व्यतिरेकभन्या व दृष्टान्तेन - द्रढयति
सुन्ना पसुसंघाया, दुब्बलगोवा य कस्स न वितका ।
इय दुब्बलनिस्साऽनिस्सिया व अजा वितकाओ॥ २४४०॥ 'शून्याः' रक्षपालविरहिताः 'दुर्बलगोपा वा' असमर्थरक्षपालपरिगृहीताः 'पशुसङ्घाताः' गवादिपशुवर्गाः कस्य न 'विताः ' अभिलषणीया भवन्ति ? । 'इति' अमुना प्रकारेण दुर्बल-1b शय्यातरनिश्रिताः सर्वथैवानिश्रिता वा आर्याः सर्वस्यापि 'विताः ' प्रार्थनीया भवन्ति ॥ २४४० ॥ अत्रैवार्थे दृष्टान्तान्तराणि दर्शयति
अइया कुलपुत्तगभोइया उ पक्कनमेव सुन्नम्मि ।
इच्छमणिच्छे तरुणा, तेणा उवहिं व ताओ वा ॥ २४४१ ॥ 'अजिका' छगलिका, कुलपुत्रकाणां च भोजिका-महिला, 'पक्वान्नं' मोदका-ऽशोकवादि, 20 यथैतानि शून्ये वर्तमानानि सर्वस्यापि स्पृहणीयानि भवन्ति एवं श्रमण्योऽपि । तथा "इच्छमणिच्छे तरुण" त्ति तरुणान् प्रार्थयमानान् यदि ता इच्छन्ति ततो ब्रह्मव्रतभङ्गः, अथ नेच्छन्ति ततस्ते बलादपि तासां ग्रहणं कुयुः । स्तेना उपधिं वा 'ता वा' संयतीरपहरेगुः ॥ २४४१ ॥
उच्छुय-धय-गुल-गोरस-एलालुग-माउलिंगफलमादी।
पुप्फविही गंधविही, आभरणविही य वत्थविही ॥ २४४२ ॥ इक्षु-घृत-गुड-गोरसाः प्रतीताः, 'एलालुकानि' चिर्भटानि, 'मातुलिङ्गफलानि' बीजपूराणि, आदिशब्दादाम्रादिपरिग्रहः, तथा 'पुष्पविधिः' चम्पकादिका पुष्पजातिः, गन्धाः-कोष्ठपुटपाकादयस्तेषां विधिः-प्रकारो गन्धविधिः, एवमाभरणविधिर्वस्त्रविधिश्च । एते इक्षुप्रभृतयः शून्या दुर्बलपरिगृहीता वा यथा सर्वस्यापि स्पृहणीयास्तथा संयत्योऽप्यनिश्रिता दुर्बलसागारिकनिश्रिता वा तरुणादीनां स्पृहणीयाः । अतोऽनिश्रया दुर्बलनिश्रया वा न स्थातव्यम् । भवेत् कारणं 30 येनानिश्रयाऽपि तिष्ठेयुः ॥ २४४२ ॥ कथम् ? इति चेद् उच्यते
___ अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असईए । १°जंता वि ता० ॥ २-३ एतचिह्नगतः पाठः भा० तडे. नास्ति ॥
HHHHHHHHHHHHI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org