SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ६९२ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ सा० नि० प्र० सू० २२-२३ तेषां वासः कल्पत इत्यर्थः । एतेन द्वितीयसूत्रस्यापि वक्ष्यमाणस्य सम्बन्धः प्रतिपादितः । 'अथ' एष सूत्रसम्बन्ध इति ॥ २४३४ ॥ ___ अनेन सम्बन्धेनायातस्यास्य व्याख्यानो कल्पते निर्ग्रन्थीनां 'सागारिकानिश्रया' शय्या तरेणापरिगृहीतानां वस्तुम् ।। 5 कल्पते निर्ग्रन्थीनां 'सागारिकनिश्रया' शय्यातरेण परिगृहीतानां वस्तुम् । एष सूत्रसङ्केपार्थः ॥ अथ भाष्यकारो विस्तरार्थं बिभणिषुराह सागारियं अनीसा, निग्गंथीणं न कप्पए वासो । चउगुरु आयरियादी, दोसा ते चेव तरुणादी ॥ २४३५॥ सागारिकः-शय्यातरस्तम् 'अनिश्राय' निश्रामकृत्वा । किमुक्तं भवति ?-शय्यातरस्य या 10 निश्रा-'मया युष्माकं चिन्ता करणीया, न भवतीभिः कुतोऽपि भेतव्यम्' इत्यभ्युपगमः, तामन्तरेण निर्ग्रन्थीनां न कल्पते वासः । अत एवैतत् सूत्रमाचार्यों यदि प्रवर्त्तिन्या न कथयति ततश्चत्वारो गुरुकाः । सा न प्रतिशृणोति चत्वारो गुरुकाः । आचार्यमुखादाकर्ण्य सा संयतीनां न कथयति तदापि चतुर्गुरुकाः । यदि ता न प्रतिशृण्वन्ति तदा तासां लघुको मासः । तत्र चापरिगृहीते उपाश्रये वसन्तीनां त एव 'तरुणादयः' "तरुणा वेसित्थि विवाह" (गा०२३०४) 15 इत्यादयो दोषाः ये आपणगृहादौ तिष्ठन्तीनामुक्ताः ॥ २४३५ ॥ सागारियं अनिस्सा, भिक्खुणिमादीण संवसंतीणं । गुरुगा दोहिं विसिट्ठा, चउगुरुगाई व छेदंता ॥ २४३६ ॥ सागारिकम् 'अनिश्राय' निश्रामकृत्वा भिक्षुण्यादीनां संवसन्तीनां 'द्वाभ्यां' तपः-कालाभ्यां विशिष्टाश्चतुर्गुरुकाः । तत्र भिक्षुण्यास्तपसा कालेन च लघुकाः, अभिषेकायाः कालेन गुरुकाः, 20 गणावच्छेदिन्यास्तपसा गुरुकाः, प्रवर्त्तिन्यास्तपसा कालेन च गुरुकाः । अथवा चतुर्गुरुकादीनि च्छेदान्तानि प्रायश्चित्तानि । तद्यथा—भिक्षुण्याश्चतुर्गुरुकम् , अभिषेकायाः षड्लघुकम्, गणावच्छेदिन्याः षड्गुरुकम् , प्रवर्तिन्याश्छेद इति । आज्ञादयश्च दोषाः ॥ २४३६ ॥ अपि च कंपइ वाएण लया, अणिस्सिया निस्सिया उ अक्खोभा। ___ इय समणी अक्खोभा, सगारिनिस्सेयरा भइया ॥ २४३७ ॥ 25 'लता' वल्ली 'अनिश्रिता' वृक्षाद्यालम्बनरहिता वातेन प्रेर्यमाणा सती कम्पते, 'निश्रिता तु' सालम्बना 'अक्षोभ्या' वातेन चालयितुमशक्या । "इय" एवं श्रमणी सागारिकनिश्रिता सती अक्षोभ्या, 'इतरा' अनिश्रिता ‘भक्ता' विकल्पिता, यदि सा खयं धृति-बलयुक्ता तदा -तरुणादीनामक्षोभ्या धृतिदुर्बला तु क्षोभणीयेति भावः ॥ २४३७ ॥ __ आह श्रमणी न खल्वाचार्य-प्रवर्तिनीनिश्राविरहिता कदापि भवति, अतः किं कार्यं तस्याः 30 सागारिकनिश्रया ? इत्युच्यते दोहि वि पक्खेहिं सुसंवुयाण तह वि गिहिनीसमिच्छति । बहुसंगहिया अज्जा, होइ थिरा इंदलट्ठी वा ॥ २४३८॥ १ सुसंगहाण ता० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy