________________
भाष्क्गायाः २४२८-३४) प्रथम उद्देशः। पर्यन्ते । तद्यथा-भिक्षोर्मासगुरुकम् , वृषभस्य चतुर्लघुकम् , उपाध्यायस्य चतुर्गुरुकम्, आचायस्य षड्लघुकम् । निर्ग्रन्थीनां तु सदोघे चित्रकर्मणि तिष्ठन्तीनां चतुर्लघुकमादौ कृत्वा षड्गुरुकान्तं प्रायश्चित्तम् । तद्यथा-भिक्षुण्याश्चतुर्लघुकम् , अभिषेकायाश्चतुर्गुरुकम् , गणाक्च्छेदिन्याः षड्लघुकम् , प्रवर्तिन्याः षड्गुरुकम् । एवम् 'उभयस्यापि' निर्ग्रन्ध-निम्न्यीवर्मस द्विविधे चित्रकर्मणि प्रायश्चित्तं ज्ञातव्यम् ।। २४३१ ॥ अथ विकथापदं व्याख्यानयति- ।
दिटुं अन्नत्थ मए, चित्तं तं सोमणं न एअंति।
इति विकहा पलिमंथो, सज्झायादीण कलहो य ॥ २४३२ ॥ तत्र चित्रकर्म दृष्ट्वा कश्चित् साधुर्च्यात्-मया पूर्वमन्यत्र चित्रकर्म दृष्टं तच्च 'शोभनं' वर्णक-रेखादिशुद्ध्या रमणीयं न पुनः एतत् प्रत्यक्षोपलभ्यमानम् । तदाकर्ण्य द्वितीयः साधु—यात्-मुग्धबुद्धे ! किं जानी त्वम् ? इदमेव रमणीयमिति । एवं विकथा सजायते । ततश्च 10 खाध्यायादीनां परिमन्थः कलहश्चोभयोरप्युत्तरप्रत्युत्तरिकां कुर्वतोरुत्पद्यते । यत एते दोषास्तस्मान्न स्थातव्यम् ।। २४३२ ॥ द्वितीयपदं वसतावसत्यामिति द्वारं भाक्यति
अद्धाणनिग्गयाई, तिपरिरया असइ अन्नवसहीए।
तरुणा करिति दूरे, निच्चावरिए य ते रूवे ।। २४३३ ।। अध्वनिर्गतादयस्त्रीन् परिरयान्-परिभ्रमणानि कृत्वा यद्यन्या निरुपहता वसतिर्न प्राप्यते ततः ।। सचित्रकर्मकेऽप्युपाश्रये तिष्ठन्ति । तत्र च प्रथमं निर्दोषे पश्चात् सदोषेऽपि । ये च तरुणास्तान् चित्रकर्मणो दूरतः कुर्वन्ति । तानि च रूपाणि 'नित्यावृतानि' सदैव चिलिमिलिकया प्रच्छादितानि कुर्वन्ति, नापावृतानि स्थापयन्तीत्यर्थः ॥ २४३३ ॥
॥चित्रकर्मप्रकृतं समाप्तम् ॥
20
सा गा रि क नि श्राप कृतम् ----
- सूत्रम्
नो कप्पइ निग्गंधीणं सागारियअनिस्साए वत्थए २२ ॥
कप्पइ निग्गंथीणं सागारियनिस्साए वत्थए २३ ॥ अस्स स्क्स्स सम्बन्धमाह
एरिसदोसविमुक्कम्मि आलए संजईण नीसाए ।
कप्पइ जईण भइओ, वासो अह सुत्तसंबंधो ॥ २४३४॥ ईदृशैः-अनन्तरोक्तैर्दोषैर्विमुक्तो य आलयः-उपाश्रयस्तस्मिन् संयतीनां सागारिकनिश्रया V परिगृहीतानां वासः कल्पते । यतीनां तु 'भक्तः' विकल्पितः, निश्रया वा अनिश्रया वा
१°ति नियुक्तिगाथापदं भाव कां० ॥ २ °यः त्रयः परिरयाः-परिभ्रमणानि समाहृता. स्त्रिपरिरयम् , त्रीन् वारान् पर्यटनं कृत्वा य° भा० ॥ ३ ॥ एतन्मध्यगतः पाठः भा० नास्ति ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org