________________
६९० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ चित्रकर्मप्रकृते सू०२०-२१ क्तम् । इह तु चित्रगतमानसानां कुतो जागरिका-स्वाध्यायौ सम्भवतः ? इत्ययम् 'अथवा' द्वितीयः सम्बन्धः ॥ २४२७ ॥
अनेन सम्बन्धद्वयेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'सचित्रकर्मणि' चित्रकर्मणा संयुक्त उपाश्रये वस्तुम् ॥ 5 कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा अचित्रकर्मणि उपाश्रये वस्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः
निदोस सदोसे वा, सचित्तकम्मे उ दोस आणादी ।
सइकरणं विकहा वा, विइयं असतीऍ वसहीए ॥ २४२८ ॥ निर्दोषे वा सदोषे वा सचित्रकर्मणि प्रतिश्रये तिष्ठतामाज्ञादयो दोषाः । ये च तादृशे 10 चित्रकर्मखचिते वेश्मनि पूर्वं भोगान् बुभुजिरे तेषां स्मृतिकरणम् , उपलक्षणत्वादितरेषां कौतु
कमुपजायते, विकथा वा तत्र वक्ष्यमाणलक्षणा भवेत् । द्वितीयपदं चात्र-वसतावसत्यां तत्रापि वसेत् ॥ २४२८ ॥ अथैनामेव नियुक्तिगाथां व्याख्याति
तरु गिरि नदी समुद्दो, भवणा वल्ली लयावियाणा य ।
निदोस चित्तकम्म, पुनकलस-सोत्थियाई य ॥ २४२९ ॥ 15 तरवः-सहकारादयः, गिरयः-हिमवदादयः, नद्यः-गङ्गा-सिन्धुप्रभृतयः, समुद्रः-लवणो
दादिकः, भवनानि-चतुःशालादीनि गृहाणि, वल्लयः-नागवल्यादयः, लताः-माधवी-चम्पकल. तादयः तासां वितानं-निकुरुम्बम् , तथा पूर्णकलश-स्वस्तिकादयश्च ये. माङ्गलिकाः पदार्थाः, एतेषां रूपाणि यत्रालिखितानि तच्चित्रकर्म निर्दोषं ज्ञातव्यम् ॥ २४२९ ॥ अथ सदोषमाह
तिरिय-मणुय-देवीणं, जत्थ उ देहा भवंति भित्तिकया।
सविकार निविकारा, सदोस चित्तं हवइ एयं ॥ २४३०॥ ___तिर्यङ्-मनुज-देवीनाम्' इति तिरश्चीनां मानुषीणां देवीनां चेत्यर्थः, एतासां देहाः सविकारा निर्विकारा वा यत्र भित्तौ कृताः-आलिखिता भवन्ति एतत् चित्रकर्म सदोषं भवति ॥ २४३० ॥ अथात्रैव तिष्ठतां प्रायश्चित्तमाह
लहु गुरु चउण्ह मासो, विसेसितो गुरुगों आदि छल्लहुगा।।
चउलहुगादी छग्गुरु, उभयस्स वि दुविहचित्तम्मि ॥ २४३१ ॥ निर्दोषे चित्रकर्मणि तिष्ठतां चतुर्णामपि तपः-कालविशेषितो लघुमासः । तद्यथा-आचायस्य द्वाभ्यामपि तपः-कालाभ्यां गुरुकः, उपाध्यायस्य तपोगुरुकः काललघुकः, वृषभस्य कालगुरुकस्तपोलघुकः, भिक्षोभ्यामपि लघुकः । निम्रन्थीनामपि निर्दोषचित्रकर्मणि तिष्ठन्तीनां प्रवर्तिनी-गणावच्छेदिनी-अभिषेका-भिक्षुणीनामेवमेव तपः-कालविशेषितो गुरुको मासः । 30 निर्ग्रन्थाः सदोषचित्रकर्मणि यदि तिष्ठन्ति तदा गुरुको मास आदौ क्रियते, पड्लघुकाश्च
१°रमाह त० डे० ॥ २ तत्र निदोषं चित्रकर्म तावदाह भा०॥ ३ °यादीया ता० ॥
४°तं मासगुरुकम् । निर्ग्रन्थाः सदोषचित्रकर्मणि यदि तिष्ठन्ति तदा चतुर्णामपि मासगुरुकमादौ कृत्वा षइलघुकान्तं द्रष्टव्यम् । तत्र भिक्षो° भा० ॥
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org