________________
भाष्यगाथाः २४२१-२७] प्रथम उद्देशः ।
६८९ चैत्यविनाशनिव-नादिकं विदधातु महाराज इति ॥ २४२४ ॥ अथ तस्य कीदृशः सहायो दीयते ? इत्याह
भाविय करणो तरुणो, उत्तर-सिंचणपहे य मुत्तणं ।
मजणमाइनिवारण, न य हिंडइ पुप्फ वारेइ ॥ २४२५ ॥ __'भावितो नाम' परिणतजिनवचनः तस्य ह्यप्कायपाने परिणामो न भवति, “करणु" ति इषुशास्त्रे संयमे वा कृतकरणः, 'तरुणः' समर्थः, ईदृशः सहायस्तस्य नातिदूरे वृक्षच्छायायामुपविष्टम्तिष्ठति । स चातापकस्तिर्यङ्-मनुष्याणामुत्तरणपथं सिञ्चनपथं च मुक्त्वा आतापयति । तथाप्यातापयन्तं यदि कोऽपि मजयति वा सिञ्चयति वा ततस्तं सहायो निवारयति । स चातापकस्तस्मिन् ग्रामे नगरे वा भिक्षां न हिण्डते, 'मा मरुकादयः प्रद्विष्टा अभ्याख्यानं विष-गरादि वा दद्युः' इति कृत्वा । यश्चातापकस्य पुष्पादीन्यालगयति तमप्यसौ सहायो वारयति ॥२४२५|| 10
॥ दकतीरप्रकृतं समाप्तम् ॥
चित्र क म प्र कृ तम्
15
सूत्रम्
नो कप्पइ निग्गंधाण वा निग्गंथीण वा सचित्तकम्मे उवस्सए वत्थए २० ॥ कप्पइ निग्गंथाण वा निग्गंथीण वा अचित्तकम्मे
उवस्सए वत्थए २१ ॥ अस्य सूत्रस्य सम्बन्धमाह
पढम-चउत्थवयाणं, अतिचारो होज दगसमीवम्मि ।
इह वि य हुन्ज चउत्थे, सचित्तकम्मेस संबंधो ॥ २४२६ ॥ प्रथम-चतुर्थव्रतयोरप्कायपान-स्त्रीपशुसंसर्गादिभिरतिचारो दकसमीपे तिष्ठतां भवेदिति कृत्वा तत्र न तिष्ठतीत्युक्तम् । इहापि च सचित्रकर्मणि प्रतिश्रये तिष्ठतां चतुर्थव्रतस्यातिचारो भवेदिति कृत्वा तत्र न तिष्ठतीत्यनेन प्रतिपाद्यते । एष सम्बन्धः ॥ २४२६ ॥ प्रकारान्तरेण तमेवाह
नो कप्पइ जागरिया, चिट्ठणमाई पया य दगतीरे ।
चित्तगयमाणसाणं, जागरि-झाया कुतो अहवा ॥ २४२७ ॥ अनन्तरसूत्रे नो कल्पते 'जागरिका' धर्मध्यानं स्थानादीनि च पदानि दकतीरे कर्तुमित्यु१र्थः स्वसमय-परसमयगृहीतार्थतया वोत्तरप्रदाने प्रगल्भः । आत्मनाऽपि च आतापक ईदृशो भवति । स च सिञ्चनपथं मुक्त्या आ° भा० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org