________________
16
६८८
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ दकतीरप्रकृते सूत्रम् १९ कुल-गण-सङ्घकार्य तत्कारणे तिष्ठेत् । एवं निष्वपि इकतीरादिषु 'यतनया' वक्ष्यमाणलक्षणया 'द्वितीयपदं' तत्रावस्थानलक्षणं सेवेत ।। २४२० ॥ अथैनामेव नियुक्तिगाथां भावयति
विज-दवियट्ठयाए, निजंतों गिलाणों असति वसहीए।
जोग्गाए वा असती, चिट्ठ दगतीरऽणोयारे ॥ २४२१ ॥ 5 ग्लानो वैद्यस्य समीपं नीयमानो द्रव्यम्-औषधं तदर्थ वाऽन्यत्र नीयमानोऽन्यत्र वसतेरभावे दकतीरेऽपि तिष्ठेत् । अथवा विद्यते वसतिः परं न ग्लानयोग्या ततो योग्याया वसतेरसति तत्र वसेत् । अथवा विश्रामणार्थ दकतीरे मुहूर्तमानं ग्लानस्तिष्ठेत् । तमपि मनुप्य-तिरश्चाम् 'अनवतारे' अप्रवेशमार्गेऽवतारयेत् ॥ २४२१ ॥ तत्र च स्थितानामियं यतना
उदगंतेण चिलिमिणी, पडियरए मोत्तु सेस अन्नत्थ । 10
पडियर पडिसंलीणा, करिज सव्याणि वि पयाणि ॥ २४२२ ॥ उदकं येनान्तेन-पार्श्वेन भवति ततश्चिलि मिली कटको वा दीयते, ये च ग्लानस्य प्रतिचरकास्तान् मुक्त्वा शेषाः सर्वेऽप्यन्यत्र तिष्ठन्ति । प्रतिचरका अपि प्रतिसंलीनास्तथा तिष्ठन्ति यथा सम्पातिमा-ऽसम्पातिमसत्त्वानां सन्त्रासो न भवति । एवं सर्वाण्यपि स्थान-निषदनादीनि पदानि कुर्यात् ॥ २४२२ ॥ गता दकतीरयतना । अथ यूपकयतनामाह
अद्धाणनिग्गयादी, संकम अप्पाबहं असुन्नं च ।
गेलन्न-सेहभावो, संसट्टसिणं व निव्वविउं ।। २४२३ ॥ अध्वनिर्गतादयः साधवोऽन्यस्या वसतेरभावे यूपके तिष्ठन्ति । तत्राल्पबहुत्वं ज्ञात्वा य. एकाङ्गिकोऽचलो अपरिशाटी निष्प्रत्यपायश्च सङ्क्रमम्तेन गन्तव्यम् । दिवा च रात्रौ च वसतिमशून्यां कुर्वन्ति । तत्र स्थितानां ग्लानस्य वा शैक्षम्य वा यदि 'पानीयं पिबामः' इत्यशुभो 20 भाव उत्पद्यते ततस्तौ प्रज्ञाप्येते । तथाप्यस्थिते भाचे तयोः संसृष्टपानकमुप्णोदकं वा 'निर्वाप्य' सुशीतलं कृत्वा दातव्यम् ॥ २४२३ ॥ अथातापनायतनामाह -
ओलोयण निग्गमणे, ससहाओ दगसमी आयावे ।
उभयदढो भोगजढे, जे आउट्ट पुच्छणया ।। २४२४ ॥ चैत्यविनाश-तद्रव्यविनाशादिविपयं किमपि कार्य राजाधीनं ततो राज्ञ आवर्जनार्थ दकस25 मीपे आतापयेत् । तच्च दकतीरं राज्ञोऽवलोकनपथे निर्गमनपथे वा भवेत् । तत्र चातापयन् 'ससहायः' नैकाकी 'उभय दृढः' धृत्या संहननेन च बलवान् “भोगजढे" ति ग्रामेयका-ऽऽरण्यकानां तिर्यङ्-मनुष्याणामवतरणमार्ग मनुजानां च स्नानादिभोगस्थानं वर्जयित्वा अपरिभोग्ये प्रदेशे आतापयति । ततः स राजा तं महातपोयुक्तमातापयन्तं दृष्ट्वा आवृत्तः सन् कार्य पृच्छेत्-भगवन् ! किमेवमातापयसि ? आज्ञापय, करोम्यहं युप्मदभिप्रेतं कार्यम् , भोगान् ३८ वा भगवतां प्रयच्छामि । मुनिराह–महाराज ! न मे कार्य भोगादिभिवरे :, इदं सङ्घकार्य
१ रणेन यतनया द्वितीयपद सेवेत ॥ २४२० ।। अथैतदेव भा॰ भा० कां ॥ - २ चैत्यविनाशस्तद्रव्यविनाशो वा संयतीचतुर्थ[बत भङ्गो वा अन्यद्वा किमपि टङ्ग
नादितं कार्य राजाधीनं तस्यावर्तनार्थ दक° भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org