________________
10
भाष्यगाथाः २४१४-२०] प्रथम उद्देशः ।
६८७ इत्येवं तृष्णापरिगतस्य 'धर्माभिभूतगात्रोऽहम्' इत्येवमुप्णपरिगतस्य वा स्नान-पानयोः परिणामः सञ्जायते ॥ २४१७ ॥ वृत्तिद्वारं प्रान्तदेवताद्वारं चाह
आउट्ट जणे मरुगाण अदाणे खरि-तिरिक्खिछोभादी ।
पञ्चक्खदेवपूयण, खरियाऽऽवरणं व खित्ताई ॥ २४१८ ॥. तस्यातापनया आवृत्तः-आवर्जितो जनो मरुकाणां दानं न ददाति, ततस्तेषामदाने खरी-5 यक्षरिका तिरश्ची-महाशब्दिकाप्रभृतिका तद्विपयं छोभम्-अभ्याख्यानं तदादयो दोषा भवेयुः । तथा 'प्रत्यक्षदेवताऽयम्' इति कृत्वा तस्य साधोः पूजनं देवतायाश्चापूजनम् , ततः "खरियाऽऽवरणं" ति संयतवेपमावृत्य तत्प्रतिरूपं कृत्वा यक्षरिकां प्रतिसेवमानं देवता दर्शयेत् , क्षिप्तचित्तादिकं वा तं श्रमणं सा देवता कुर्यादिति ॥ २४१८ ॥ अथैनामेव नियुक्तिगाथां स्पष्टयति
आयावण साहुस्सा, अणुकंपं तस्स कुणइ गामो उ ।
मरुयाणं च पओसो, पडिणीयाणं च संका ये ॥ २४१९ ॥ तस्य साधोर्दकतीरे आतापनां कुर्वतो ग्रामजनः सर्वोऽप्यावृत्तः, ततश्चानुकम्पां तस्य करोति, पारणकदिवसे भक्तादिकं सविशेषं ददातीत्यर्थः, 'अयं प्रत्यक्षदेवः, किमस्माकमन्येषां मरुकादीनां दत्तेन ? एतस्य दत्तं बहुफलं भवति' इति कृत्वा । ततो मरुकाणामदीयमाने प्रद्वेषः 15 सञ्जातः, ततस्ते व्यक्षरिका-महाशब्दिकादिविषयमयशः प्रदद्युः, यथा--एष संयंतोऽस्माभिद्यक्षरिकां महाशब्दिकां वा प्रतिसेवमानो दृष्ट इति । तत्र ये प्रत्यनीकास्तेषां शङ्का भवति तत्र चतुर्गुरु, निःशङ्कित मूलम् ; अथवा ये प्रत्यनीकास्ते शङ्कन्ते-कस्मादेष तीर्थस्थाने आतापयति ? किं स्तैन्यार्थी ? उत मैथुनार्थी ? इति ॥ २४१९ ॥
गतं वृत्तिद्वारम् । अथ "पञ्चक्खदेव" इत्यादि पश्चाई भाव्यते-यत्रासावातापयति तत्र 20 प्रत्यासन्ना देवता वर्त्तते तस्या लोकः सर्वोऽपि पूर्वं पूजापर आसीत् । तं च साधु तत्रातापयन्तं दृष्ट्वा अयं प्रत्यक्षदैवतमिति कृत्वा लोकस्तं पूजयितुं लग्नः । ततः सा देवता अपूज्यमाना प्रद्विष्टा सती घ्यक्षरिकाद्यभ्याख्यानं दद्यात् । अथवा साधुरूपमावृत्य तत्प्रतिरूपं व्यक्षरिकां तिरश्ची वा प्रतिसेवमानं दर्शयेत् , क्षिप्तचित्तं वा कुर्यात् , अपरां वा अकल्पप्रतिसेवनादिकामक्रियां दर्शयेत् । यस्मादियन्तो दोषास्तस्माद् दकतीरे यूपके वा न स्थानादीनि पदानि 25 कुर्यात् , द्वितीयपदे कुर्यादपि । कथम् ? इत्याह
पढमे गिलाणकारण, बीए वसहीऍ असइए वसइ ।
रायणियकजकारण, तइए विड्यपय जयणाए ॥ २४२०॥ प्रथम-दकतीरं तत्र ग्लानकारणात् तिष्ठेत् । द्वितीयं-यूपकं तत्र निर्दोषाया वसतेः 'असति' अभावे 'वसति' तिष्ठति । 'तृतीयम्' आतापनापदं तत्र रानिकः-राजा तदायत्तं यत् 30 १°त्तो यो जनस्तस्माद् मरुकाणामदाने 'ख' भा० ॥२°कायाः परिभोगं देव भा० कां० ॥ ३ अथैतदेव स्प° भा० कां ॥ ४उ ता० ॥ ५°तः, तेन च व्य° भा०॥ ६ यतो मया द्वय भा. ॥ ७ व्याख्यायते भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org