________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [दकतीरप्रकृते सूत्रम् १९ दतॄण व सइकरणं, ओभासण विरहिए य आइयणं ।
परितावण चउगुरुगा, अकप्प पडिसेव मूल दुगं ॥ २४१४ ॥ ग्लानस्य तदुदकं दृष्ट्वा 'स्मृतिकरणम्' ईदृशी स्मृतिरुत्पद्यते---पिबाम्यहमुदकम् । ततोऽसाववभाषणं करोति, यदि दीयते ततः संयमविराधना, अथ न दीयते ततो ग्लानः परित्यक्तः । 5 विरहिते च कारणतः साधुभिः प्रतिश्रये उदकस्य “आइयणं" ति पानं कुर्यात् , यदि खलिङ्गेनापिबति ततश्चतुर्लघुकम् । अथ "दुर्ग" ति गृहिलिङ्गमन्यतीर्थिकलिङ्गं च तेन 'अकल्पम्' अप्कायं प्रतिसेवते ततो मूलम् , तेन चापथ्येनानागाढपरितापनादयो दोषाः, तन्निष्पन्नमाचार्यस्य प्रायश्चित्तम् । अथवा "अकप्प पडिसेव मूल दुगं" ति अकल्पं प्रतिसेव्य भगवतोऽहमिति कृत्वा यद्येको ग्लानोऽवधावते तत आचार्यस्य मूलम् , द्वयोरनवस्थाप्यम् , त्रिषु पारा10ञ्चिकम् ॥ २४१४॥
आउक्काए लहुगा, पूयरगादीतसेसु जा चरिमं ।
जे गेलने दोसा, धिइदुब्बलें सेहें ते चेव ॥ २४१५॥ अप्काये प्रतिसेविते चतुर्लघुकाः । पूतरकादित्रसेषु 'चरमं' पाराञ्चिकं यावन्नेतव्यम् । तत्र पूतरकादिषु द्वीन्द्रियेषु षड्लघुकम् , त्रीन्द्रियेषु षड्गुरुकम् , चतुरिन्द्रियेषु च्छेदः, पञ्चे15न्द्रिये मत्स्यादौ २ उँदकेन सह गिलिते» एकस्मिन् मूलम् , द्वयोरनवस्थाप्यम् , त्रिषु पाराश्चिकम् । ये च ग्लान्ये ग्लानस्य स्मृतिकरणा-प्कायपानादयो दोषा उक्ताः 'धृतिदुर्बले' मन्दश्रद्धे शैक्षे त एव द्रष्टव्याः ॥ २४१५ ॥ ___ गतं यूपकद्वारम् । अथातापनाद्वारमाह नियुक्तिकारः--
आयावण तह चे उ, नवरि इमं तत्थ होइ नाणत्तं । __ मन्जण सिंचण परिणाम वित्ति तह देवया पंता ॥ २४१६ ॥ ये दकतीरेऽधिकरणा-ऽन्तरायादयो दोषा उक्तास्ते यथासम्भवं दकतीरे यूपके वा आतापनां कुर्वतस्तथैव भणितव्याः, नवरमिदं 'नानात्वं' विशेषो भवति-तत्रातापयतो मज्जनं वा सिञ्चनं वा कश्चित् कुर्यात् , परिणामो वा तस्य स्नानादिविषयो भवेत् , 'वृत्तिर्वा' आजीविका मरुकाणां व्यवच्छिद्येत, प्रान्ता वा देवता लोकेनापूज्यमाना साधोरुपसर्ग कुर्यात् ॥ २४१६ ॥ 28 तत्र मज्जन-सिञ्चन-परिणामद्वाराणि व्याख्यानयति
मजंति व सिंचंति व, पडिणीयऽणुकंपया व णं केई ।
तण्हुण्हपरिगयस्स व, परिणामो ण्हाण-पियणेसु ॥ २४१७ ॥ “ण” इति तमातापकं प्रत्यनीकतया अनुकम्पया वा केचिद् 'मजयन्ति वा' स्वपयन्ति 'सिञ्चन्ति वा' शृङ्गच्छटादिभिरञ्जलीभिर्वा निर्वापयन्ति । यद्वा तस्यातापकस्य 'तृषितोऽहम्'
१ अथ "अकप्प पडिसेव मूल दुर्ग" ति गृहिलिङ्गमन्यतीर्थिक लिङ्गं च तद्विकं तेन कां०॥ २°थ्येन सेवितेन ग्लानस्यानागाढपरितापनादयो दोषाः, तनिष्पन्नं चतुर्गुरुकादिकं प्रायं कां० ॥ ३ एतदने कां० पुस्तके उदकपान एव सविशेषं प्रायश्चित्तमाह इत्यवतरणं वर्तते ॥
४-५ एतचिह्नगतः पाठः भा० कां० नास्ति,॥ ६चेवं, न ता॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org