SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 10 भाष्यगाथाः २४०६-१३] प्रथम उद्देशः । पञ्चकादारब्धं षड्लघुकं यावद् , भिक्षुण्या लघुदशकादारब्धं षड्गुरुकान्तम् , अभिषेकाया गुरुदशकादारब्धं छेदपर्यन्तम् , प्रवर्तिन्या लघुपञ्चदशकादारब्धं मूलान्तमवसातव्यम् ॥ २४०९ ॥ एतदेवाह छल्लहुएँ ठाइ थेरी, भिक्खुणि छग्गुरुऍ छेद गणिणी उ । मूले पवत्तिणी पुण, जह भिक्खुणि खुड्डए एवं ॥ २४१० ॥ स्थविरा षड्लघुके, भिक्षुणी षड्गुरुके, गणिनी' अभिषेका सा छेदे, प्रवर्तिनी पुनर्मूले तिष्ठतीति । यथा च भिक्षुण्यां एवं क्षुल्लकेऽपि द्रष्टव्यम् , दशभ्यो लघुरात्रिन्दिवेभ्यः षड्गुरुकान्तमसम्पातिम-सम्पातिमादिषु प्रायश्चित्तं भवतीत्यर्थः ॥ २४१० ॥ गणिणिसरिसो उ थेरो, पवत्तिणिविभागसरिसओ भिक्खू । अड्डोकंती एवं, सपदं सपदं गणि-गुरूणं ।। २४११॥ गणिनी-अभिषेका तस्याः सदृशः स्थविरः, यथा अभिषेकाया गुरुदशकमादौ कृत्वा च्छेदान्तं भणितं तथा स्थविरस्यापि भणनीयमिति भावः । प्रवर्तिन्याः प्रायश्चित्तविभागेन सदृशो भिक्षुभवति, लघुपञ्चदशकात् प्रभृति मूलान्तं प्रायश्चित्तं तस्यापि ज्ञेयमिति हृदयम् । एवम् 'अर्द्धापक्रान्त्या' अधस्तनैकपदहासोपरितनपदैकवृद्ध्यात्मिकया गणी-उपाध्यायो गुरुः-आचार्यस्तयोरपि वपदं स्वपदं यावत् प्रायश्चित्तं नेतव्यम् । तत्रोपाध्यायस्य गुरुपञ्चदशकमादौ 15 कृत्वा खपदमनवस्थाप्यम् , आचार्यस्य लघुविंशतिरात्रिन्दिवादारभ्य स्वपदं पाराञ्चिकं यावद् द्रष्टव्यम् ॥ २४११ ॥ एवं तु चिट्ठणादिसु, सव्वेसु पदेसु जाव उस्सग्गो । पच्छित्ते आदेसा, इक्विकपयम्मि चत्तारि ॥ २४१२ ॥ 'एवम्' अमुना प्रकारेण स्थान-निषदनादिपु सर्वेष्वपि पदेषु कायोत्सर्ग यावदेकैकस्मिन् पदे 20 प्रायश्चित्तविषयाश्चत्वार आदेशा भवन्ति । तद्यथा--एकं तावदौधिकं प्रायश्चित्तम् , द्वितीयं तदेव तपः-कालविशेषितम् , तृतीयं छेदान्तम् , चतुर्थं चारणिकाप्रायश्चित्तम् ॥ २४१२ ॥ गतं दकतीरद्वारम् । अथ यूपकस्यावसरः, तमेवाभिधित्सुराह संकम जूवे अचले, चले य लहुगो य हुंति लहुगा य । तम्मि वि सो चेव गमो, नवरि गिलाणे इमं होइ ।। २४१३ ॥ 25 यूपकं नाम-बेटकाख्यं जलमध्यवर्ति तटम् , तत्र देवकुलिका वा गृहं वा भवेत् तत्र वसतिं गृह्णतश्चतुर्लघुकाः । तच्च यूपर्क सङ्क्रमेण वा गम्येत जलेन वा । सङ्क्रमो द्विविधःचलोऽचलश्च । अचलेन गच्छतो मासलघु । चलो द्विविधः---सप्रत्यपायो निष्प्रत्यपायश्च । सप्रत्यपायेन गच्छतश्चतुर्गुरुकम् , निष्प्रत्यपायेन व्रजतश्चत्वारो लघुकाः । तस्मिन्नपि यूपके 'स एव गमः' सैव वक्तव्यता या दकतीरे भणिता "अधिकरणमन्तरायः” ( गा० २३८७) 30 इत्यारभ्य यावद् “एकैकस्मिन् पदे चत्वार आदेशाः” (गा० २४१२) इति । नवरं ग्लानं प्रतीत्य इदमभ्यधिकं दोषजालं भवति ॥ २४१३ ॥ १ एतदग्रे तदेवाह इत्यवतरणं कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy