SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २३९९-२४०५] प्रथम उद्देशः । अथ सम्पातिमा-ऽसम्पातिमपदे व्याख्याति जलजा उ असंपाती, संपातिम सेसगा उ पंचिंदी। अहवा मुत्तु विहंगे, होति असंपातिमा सेसा ॥ २४०२ ॥ ये 'जलजाः' मत्स्य-मण्डूकादयस्तेऽसम्पातिमाः, तैर्युक्तं दकतीरमप्यसम्पातिमम् । शेषाः 'पञ्चेन्द्रियाः' स्थलचराः खेचरा वा ये स्थानान्तरादागत्य सम्पतन्ति ते सम्पातिमास्तैयद युक्तं तत् । सम्पातिमम् । अथवा 'विहङ्गाः' पक्षिणस्ते यत्रागत्य सम्पतन्ति तत् सम्पातिमम् । तान् मुक्त्वा 'शेषाः' स्थलचरा जलचरा वा सर्वेऽप्यसम्पातिमाः, तद्युक्तं दकतीरमसम्पातिमम् ॥२४०२॥ अथ पूर्वोक्तं प्रायश्चित्तं व्यक्तीकुर्वन्नाह असंपाइ अहालंदे, अद्दिढे पंच दिट्ठि मासो उ । पोरिसि अदिहि दिटे, लहु गुरु अहि गुरुओं लहुआ उ ॥ २४०३ ॥ 10 असम्पातिमे दकतीरे जघन्यं यथालन्दमदृष्टस्तिष्ठति पञ्च रात्रिन्दिवानि, दृष्टस्तिष्ठति मासलघु, असम्पातिमे पौरुषीमदृष्टस्तिष्ठति मासलघु, दृष्टस्तिष्ठति मासगुरु, अधिकां पौरुषीमदृष्टस्तिष्ठति मासगुरु, दृष्टम्तिष्ठति चतुर्लघु । एवमसम्पातिमे दकतीरे भणितम् ॥ २४०३ ॥ संपाइमे वि एवं, मासादी नवरि ठाइ चउगुरुए। भिक्खू-वसभा-ऽऽयरिए, तब-कालविसेसिया अहवा ॥ २४०४॥ 15 सम्पातिमेऽप्येवमेवार्धपक्रान्त्या प्रायश्चित्तं द्रष्टव्यम् । नवरं लघुमासादारब्धं चतुर्गुरुके तिष्ठति, एतदोघतः प्रायश्चित्तम् । अथवैतान्येव भिक्षु-वृषभा-ऽभिषेका-ऽऽचार्याणां तपः-कालविशेषितानि भवन्ति । तथाहि-पूर्वोक्तं सर्वमपि प्रायश्चित्तं भिक्षोस्तपसा कालेन च लघुकम् , वृषभस्य कालगुरु तपोलघु, अभिषेकस्य तपोगुरु काललघु, आचार्यस्य तपसा कालेन च गुरुकम्। अत्र चाभिषेकपदं गाथायामनुक्तमपि "तन्मध्यपतितस्तद्रहणेन गृह्यते" इति न्यायात् प्रतिपत्त- 20 व्यम् । एष द्वितीय आदेशः ॥ २४०४ ॥ ___ अहवा भिक्खुस्सेयं, वसभे लहुगाइ ठाइ छल्लहुए। अभिसेगे गुरुगादी, छग्गुरु लहु छेदों आयरिए ॥ २४०५ ॥ अथवा यदेतत् प्रायश्चित्तमुक्तं तद् भिक्षोर्द्रष्टव्यम् । वृषभस्य तु मासलघुकादारब्धं षड्लघुके तिष्ठति, तत्रासम्पातिमे यथालन्द-पौरुषी-समधिकपौरुषीषु दृष्टा-दृष्टयोर्मासलघुकादारब्धं चतुर्गु- 25 रुके तिष्ठति । सम्पातिमे एतेष्वेव स्थानेषु मासगुरुकादारब्धं षड्लघुके पर्यवस्यति । 'अभिषेकस्य' उपाध्यायस्यासम्पातिमे मासगुरुकादारब्धं षड्लघुके तिष्ठति, सम्पातिमे चतुर्लघुकादारब्धं षड्गुरुके तिष्ठति । आचार्यस्य चतुर्लघुकादारब्धमसम्पातिमे पगुरुके सम्पातिमे चतुर्गुरुकादारब्धं (ग्रन्थाअम्-५००० । सर्वग्रन्थानम्-१७२२०) छेदे निष्ठामुपैगच्छति । एष तृतीय आदेशः ॥ २४०५ ॥ अथ चतुर्थमादेशमाह १°माः, तत्रैव वास्तव्यत्वात्, ते का० ॥ २ 'ति । अथवा एतदेव भिक्षु-वृषभा. ऽभिषेका-ऽऽचार्याणां तपःकालविशेषितं तद् दातव्यम् । तत्र भिक्षोस्त° भा० ॥ ३°त्तमुक्तम् । त० डे. कां. ॥ ४°पयाति त० डे, ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy