________________
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ दकतीरप्रकृते सूत्रम् १९
ज्ञातिवर्गश्चिन्तयति---अस्मदीयस्त्रीणां मज्जनादिस्थाने एष श्रमणः परिभवेन कामयमानो वा तिष्ठति, ततो दुष्टशील इति कृत्वा ग्रहणा - ऽऽकर्षणादीनि कुर्यात् । याः पुनर परिग्रह स्त्रियस्ताः ‘कुत्सिताः’ रजक्यादयः ‘इतराः ' अकुत्सिता ब्राह्मण्यादयः तावप्येवमेवात्मपरोभयसमुत्थादयो दोषाः । ‘मिथुनेषु' स्त्री-पुरुषयुग्मेषु मैथुनक्रीडया रममाणेषु सविशेषतरा दोषा भवन्ति, ये च ऽ चङ्क्रमणादयो दोषाः पूर्वमुक्तास्तेऽप्यत्र तथैव द्रष्टव्याः । यत एते दोषा अतो दकतीरेऽमूनि सूत्रोक्तानि पदानि न कुर्यात् ॥ २३९८ ॥
चिट्ठण निसीयणे या, तुयट्ट निद्दा य पयल सज्झाए । झाणाऽऽहार वियारे, काउस्सग्गे य मासलहू || २३९९ ॥
स्थाने १ निषदने २ त्वग्वर्त्तने ३ निद्रायां ४ प्रचलायां ५ स्वाध्याये ६ ध्याने ७ आहारे ८ 10 विचारे ९ कायोत्सर्गे १० चेति दशसु पदेषु दकतीरे विधीयमानेषु प्रत्येकं मासलघु, असामाचारीनिष्पन्नमिति भावः || २३९९ ॥ अथ निद्रा प्रचलयोः स्वरूपमाह -
६८२
सुहपडिबोहो निद्दा, दुहपडिबोहो उ निद्दनिद्दा य ।
पयला होइ ठियस्सा, पयलापयला य चंकमओ ॥। २४०० ॥ सुखेन-नखच्छोटिकामात्रेणापि प्रतिबोधो यस्मिन् स सुखप्रतिबोधः, एवंविधः खापविशेषो to निद्रेत्युच्यते । यत्र तु दुःखेन महता प्रयत्नेन प्रतिबोधः स निद्रानिद्रा । तथा स्थितो नामउपविष्ट ऊर्द्धस्थितो वा तस्य या खापावस्था सा प्रचला । या तु 'चङ्क्रमतः ' गतिपरिणतस्य निद्रा सा प्रचलाप्रचला । अत्र च निद्रा प्रचलयोरधिकारे यन्निद्रानिद्रा - प्रचलाप्रचलयोर्व्याख्यानं तदनयोरप्यत्रैवान्तर्भावो द्रष्टव्य इति ज्ञापनार्थम् || २४०० ॥
अर्थं विस्तरतः प्रायश्चित्तं वर्णयितुकाम आह
20
संपामे असंपामे व दिट्ठे तहेव अट्ठेि ।
I
पण लहु गुरु लहुगा, गुरुग अहालंद पोरुसी अहिया ।। २४०१ ॥ दकतीरे 'सम्पातिमेऽसम्पातिमे' वा' उभयस्मिन्नपि वक्ष्यमाणलक्षणे दृष्टोऽदृष्टो वा तिष्ठति । कियन्तं पुनः कालम् ? इत्याह--- यथालन्दं पौरुषीमधिकं वा पौरुषीम् । तत्र यथालन्दं त्रिधा— जधन्यं मध्यममुत्कृष्टं च । तत्र स्त्रिया आर्द्रः करो यावता कालेन शुष्यति तद् जघन्यम्, उत्कृष्टं 25 पूर्वकोटिप्रमाणम्, तयोरपान्तराले सर्वमपि मध्यमम् । अत्र जघन्येन यथालन्देनाधिकारः । एवं यथालन्दादिभेदात् त्रिविधं कालं दकतीरे तिष्ठतः पञ्चकं लघुको गुरुको मासः लघुका गुरुकाश्चत्वारो मासाः प्रायश्चित्तम् । एतदुपरिष्टाद् ( गा० २४०३ ) व्यक्तीकरिष्यते ॥ २४०१ ॥
१ °ति - यत्रास्माकं स्त्रियो मज्जनादि कुर्वन्ति तत्रैष श्र° भा० ॥ २ पाः । " इत्थी सविसेस मिहुणेसु” त्ति ये सस्त्रीकाः पुरुषास्तेषु मैथु' भा० ॥ ३ चिट्ठित्तु निसीइत्ता तुयह ता० ॥ ४ थ विभागतः प्रा भा० ॥ ५ मे वा दृष्टोऽ° भा० ॥ ६ मो० ले० विनाऽन्यत्र — लन्दमिति काल उच्यते । स च त्रिधा - जघन्यो मध्यम उत्कृष्टश्च । तरुणस्त्रिया उदकाईः करो यावता कालेन शुष्यति स जघन्यः, उत्कृष्टः पूर्वकोटिप्रमाणः, तयोरपान्तराले सर्वोऽपि मध्यमः । भा० ॥ ७° तरुणस्त्रिया उदकाईः क त डे० कां ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org