SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ६८० सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ दकतीरप्रकृते सूत्रम् १९ ये जुगुप्सिता अजुगुप्सिता वा दुष्टास्ते द्वयेऽपि यथा आरण्यकास्तथैव दोषानाश्रित्य ज्ञेयाः । ये अजुगुप्सिता अदुष्टास्तेष्वपि यथासम्भवं दोषा उपयुज्य वक्तव्याः ॥ २३९१ ॥ _ये पुनर्जुगुप्सिता अदुष्टास्तेषु दोषानाह- . भुत्तियरदोस कुच्छिय, पडिणीय च्छोभ गिण्हणादीया । आरण्णमणुय-थीसु वि, ते चेव नियत्तणाईया ॥ २३९२ ॥ येन साधुना महाशब्दिकाद्या जुगुप्सिता तिरश्ची गृहस्थकाले भुक्ता तस्य तां तत्र दृष्ट्वा स्मृतिः, इतरस्य कौतुकम् , एवं भुक्ता-ऽभुक्तसमुत्था दोपा भवन्ति । अथवा तासु जुगुप्सितासु तिरश्चीषु पार्श्ववर्तिनीषु प्रत्यनीकः कोऽपि “छोभ" त्ति अभ्याख्यानं दद्यात्-मयैष श्रमणको महाशब्दिको प्रतिसेवमानो दृष्ट इति, तत्र ग्रहणा-ऽऽकर्षणप्रभृतयो दोषाः । एवं ग्रामेयका10ऽऽरण्यकेषु तिर्यक्षु दोषा उपदर्शिताः । अथ मनुष्येष्वभिधीयन्ते--"आरण्ण" इत्यादि, मनुष्या द्विविधाः-आरण्यका ग्रामेयकाश्च । तत्रारण्यकेषु पुरुषेषु त एव दोषाः, स्त्रीप्वप्यारण्यकासु त एव निवर्जना-ऽन्तरायादयो दोषा ये तिर्यक्षु भणिताः ॥ २३९२ ॥ एते चान्येऽभ्यधिकाः पायं अवाउडाओ, सबराईओ तहेव नित्थक्का । 16 आरियपुरिस कुतूहल, आउभयपुलिंद आसुवहो ।। २३९३ ॥ ___ 'प्रायः' बाहुल्येन शबरीप्रभृतय आरण्यको अनार्यस्त्रियः ‘अपावृताः' वस्त्रविरहिताः "नित्थक्का" इति निर्लज्जाश्च भवन्ति, ततः साधुं दृष्ट्वा आयोऽयं पुरुष इति कृत्वा कौतूहलेन तत्रागच्छेयुः, ताश्च दृष्ट्वा साधोरात्मोभयसमुत्था दोषा भवेयुः, तदीयपुलिन्दश्च तां साधुसमीपायातां विलोक्य ईर्ष्याभरेण प्रेरितः साधोः पुलिन्द्या उभयस्य वा आशु-शीघ्रं वधं कुर्यात् ॥२३९३॥ 20 थी-परिसअणायारे, खोभो सागारियं ति वा पहणे।। गामित्थी-पुरिसेहि वि, ते चिय दोसा इमे अन्ने ॥ २३९४ ॥ अथवास पुलिन्द्रः पुलिन्द्या सहानाचारमाचरेत् ततः स्त्रीपुरुषानाचारे दृष्टे चित्तक्षोभो भवेत् , क्षुभिते च चित्ते प्रतिगमनादयो दोषाः । यद्वा स पुलिन्द्रस्तां प्रतिसेवितुकामः ‘सागारिकं' वक्ष्यमाणलक्षणमिति कृत्वा तं साधुं प्रहण्यात् । एते आरण्यकेषु स्त्री-पुरुषेषु दोषा उक्ताः । 25 ग्रामेयकस्त्री-पुरुषेप्वपि त एव दोषाः । एते चान्येऽधिका भवन्ति ॥ २३९४ ॥ चंकमणं निल्लेवण, चिट्ठित्ता तम्मि चेवे तूहम्मि । अच्छंते संकापद, मजण दटुं सतीकरणं ॥ २३९५ ॥ चक्रमणं निर्लेपनं वा तत्र गृहस्र्थः कर्तुकामोऽपि साधुं दृष्ट्वा कश्चिदन्यत्र गत्वा करोति, कश्चिच्च तत्रैव तीर्थे साधुसमीपे गत्वा करोति । तथा “चिट्ठित्त" त्ति कश्चिद् गृहस्थः साधुना 30 सह गोष्ठीनिमित्तं स्थित्वा पश्चादन्यत्र गच्छति । एवमधिकरणं भवेत् । तथा दकतीरे तिष्ठति १°सु कुत्सिता मो० ले० ॥ २ °ण्यकानां पुरुषाणां स्त्रीणां च त एव भा० ॥ ३ °कमनुष्यस्त्रि भा० ॥ ४°ण्यकानां दो भा० ॥ ५ °व कुहरम्मि ता० ॥ ६ °स्थः कृत्वा गन्तुकामोऽपि साधुं दृष्ट्वा तत्रैव तीर्थे साधुसमीपे स्थित्वा पश्चा भा० का० ॥ ७°ति । तत्र च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy