________________
६७८
सनियुक्ति-लघुभाप्य-वृत्तिके वृहत्कल्पसूत्रे [ दकतीरप्रकृते सूत्रम् १९ __ आहणण सिंच जलचर-खह-थलपाणाण विनासो ॥ २३८७ ॥ दकतीरे तिष्ठतः साधोः 'अधिकरणं' वक्ष्यमाणलक्षणं वहूनां च प्राणिनामन्तरायं भवति । तथा साधोः सम्बन्धिनीनां पादरेणूनां 'छेदनकाः सूक्ष्मावयवरूपा उड्डीय पानीये निपतेयुः, यद्वा 'छेदनं नाम' ते प्राणिनः साधुं दृष्ट्वा प्रतिनिवृत्ताः सन्तो हरितादिच्छेदनं कुर्वन्तो व्रजन्ति । 5 "उस्सासे"ति उच्छ्वासविमुक्ताः पुद्गला जले निपतन्ति ततो अप्कायविराधना, यदि वा तेषां प्राणिनां तृषार्तानाम् 'उच्छासः' च्यवनं भवेत् मरणमित्यर्थः । “अणहियासे य" ति 'अनधिसहाः' तृषामसहिष्णवस्तेऽतीर्थेन जलमवतरेयुः, साधुर्वा कश्चिद् 'अनधिसहः' तृषार्तः पानीयं पिवेत् । दुष्टगवा-ऽश्वादिना वा तस्याहननं भवेत् । दकतीरस्थितं वा अनुकम्पया प्रत्यनीकतया
वा कश्चिद् दृष्ट्वा सिञ्चनं कुर्यात् । जलचर-खचर-स्थलचरप्राणिनां च वित्रासो भवेत् ॥२३८७।। 10 तत्राधिकरणं व्याचित्यासुराह--
दट्ठण वा नियत्तण, अभिहणणं वा वि अन्नतूहेणं ।
गामा-ऽऽरन्नपसूणं, जा जहि आरोवणा भणिया ॥ २३८८ ॥ साधुं दृष्ट्वाऽऽरण्यकादिप्राणिनां निवर्तनं भवति, अभिहननं वा परस्परं तेषां भवेत् , “अन्ननूहेणं" ति अन्यतीर्थेन वा ते जलमवतरेयुः, तेषां च ग्रामा-ऽऽरण्यपशूनां निवर्तनादौ १ पटका. 15 योपमर्दसम्भवात् “छक्काय चउसु लहुगा" (गा० ४६१ गा० ८७९ च ) इत्यादिना - या यत्रारोपणा भणिता सा तत्र द्रष्टव्या । एवं नियुक्तिगाथासमासार्थः ॥ २३८८ ।। अथैनानेव विवृणोति--
पडिपहनियनमाणम्मि अंतरायं च तिमरणे चरिमं ।
सिग्घगइतनिमित्तं, अभिघातो काय-आयाए । २३८९ ॥ 30 आरण्यकाः तिर्यञ्चः तिर्यस्त्रियो वा 'पानीयं पिबामः' इत्याशया तीर्थाभिमुखमावान्तः साधु दकतीरस्थितं दृष्ट्वा प्रतिपथेनं निवर्तन्ते, निवर्तमाने च तत्रारण्यकप्राणिगणे साधोरधिकरणं भवति । तेषां च तृषार्तानामन्तरायं चशब्दात् परितापना च कृता भवति । तत्रैकस्मिन् परितापिते च्छेदः, द्वयोस्तु मूलम् , त्रिवनवस्थाप्यम् , चतुर्यु परितापितेषु पाराञ्चिकम् , » एतेनान्त
रायपदं व्याख्यातम् । “तिमरणे चरिमं" ति यद्येकस्तृषातों म्रियते ततो मूलम् , द्वयोर्पियमा25 णयोरनवस्थाप्यम् , त्रिषु म्रियमाणेषु साधोः पाराञ्चिकम् , एतेनोच्छासपदं विवृतम् । तथा तं
१ 'खहवरपाणाण ता. विना ॥२ °न्धिना चलितोत्क्षेपेण यदुद्धतं रजस्तस्य 'छेद भा० ।
३ यद्वा "ऊसासे"ति सूचकत्वात् सूत्रस्य 'उच्चास' च्यवनं प्राणव्यपगमस्पा प्राणिनां तृषार्तानां भवतीत्यर्थः । “अणहियासे य" ति कश्चिदसहिष्णुस्तृषितो धृतिदुलः पानीयं भा० ॥ ४ °सात् व्य° भा० विना ॥ ५॥ एतदन्तर्गतः पाठः भा० का . नास्ति । ६° सङ्ग्रहगा भा० का० ॥ ७°न-यतः पथा आगताः तेनैव पथा निव' कां०॥ ८°न्ते ततो तेषामन्तरायं भा०॥ ९त्रिषु परितापिनेषु अनवस्थाप्यम् । एतेनान्तरायद्वारं व्या भा० ॥ १०चूर्णों विशेषचूर्णा च एतचिह्नमध्यवयसूचकः पाठो न वर्तते । ११ सद्वारं वि भा० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org