________________
भाष्यगाथाः २३८२-८६] प्रथम उद्देशः ।
६७७ वा स्वादिमं वाऽऽहारयितुम् , उच्चारं वा प्रश्रवणं वा खेलं वा सिङ्घानं वा परिष्ठापयितुम् , 'स्वाध्यायं वा' वाचनादिकं कर्तुम् , 'धर्मजागरिकां वा' « धर्मध्यानलक्षणां » 'जागरितुं' र कर्तुम् धातूनामनेकार्थत्वात् , अत्र पाठान्तरम् --"झाणं वा झाइत्तए" धर्मध्यानमनुस्मर्तुमिति, I» 'कायोत्सर्ग वा' ५ चेष्टा-ऽभिभवभेदाद् द्विविधकायोत्सर्गलक्षणं » स्थानं 'स्थातुं' कर्तुमित्यर्थः । एष सूत्रार्थः ॥ अथ नियुक्तिविस्तरः
दगतीर चिट्ठणादी, जूयग आयावणा य बोधव्या ।
लहुओ लहुया लहुया, तत्थ वि आणाइणो दोसा ॥ २३८४ ॥ दकतीरे स्थानादीनि कुर्वतः प्रत्येकं लघुको मासः । 'यूपके' वक्ष्यमाणलक्षणे वसतिं गृह्णाति चतुर्लघुकाः । 'आतापनों' प्रतीतामपि दकतीरे कुर्वतश्चतुर्लघुकाः प्रायश्चित्तं बोद्धव्याः । तत्रापि प्रत्येकमाज्ञादयो दोषाः ॥ २३८४ ॥ अत्र दकतीरस्य प्रमाणे बहव आदेशाः सन्ति तानेव दर्शयति
नयणे पूरे दितु, तडि सिंचण वीइमेव पुढे य ।
अच्छंते आरण्णा, गाम पसु-मणुस्स-इत्थीओ ॥ २३८५ ॥ नोदकः प्राह-'नयणि" त्ति उदकाकराद् यत्रोदकं नीयते तद् दकतीरम् , यदि वा यावन्मानं नदीपूरेणाक्रम्यते तद् दकतीरम् , यद्वा यत्र स्थितैर्जलं दृश्यते तद् दकतीरम् , 15 अथवा यावन्नद्यास्तटी भवति, यदि वा यत्र स्थितो जलस्थितेन शृङ्गकादिना सिच्यते, अथवा यावन्तं भूभागं वीचयः स्पृशन्ति, यदि वा यावान् प्रदेशो जलेन स्पृष्ट एतद् दकतीरम् । सूरिराह-यानि त्वया दकतीरलक्षणानि प्रतिपादितानि तानि न भवन्ति, किन्त्वारण्यका ग्रामेयका वा पशवो मनुप्याः स्त्रियो वा जलार्थिन आगच्छन्तः साधुं यत्र स्थितं दृष्ट्वा तिष्ठन्ति निवर्तन्ते वा तद् दकतीरमुच्यते ।। २३८५ ॥ एतदेव सविशेषमाह
20 सिंचण-वीई-पुट्ठा, दगतीरं होइ न पुण तम्मत्तं ।
ओतरिउत्तरिउमणा, जहि दट्ट तसंति तं तीरं ॥ २३८६ ॥ नयन-पूरप्रभृतीनां सप्तानीमादेशानां मध्याच्चरमाणि त्रीणि सिञ्चन-वी चि-स्पृष्टलक्षणानि दकतीरं भवन्ति, न पुनस्तावन्मात्रमेव, किन्त्वारण्यका ग्रामेयका वा तिर्यङ्-मनुष्या जलपानाद्यर्थमवतरीतुमनसः पीत्वा वा उत्तरीतुमनसो जलचरा वा यत्र स्थितं साधुं दृष्ट्वा 'त्रस्यन्ति' बिभ्यति 5 चलन्ति वा तदव्यभिचारि दकतीरमुच्यते ॥ २३८६ ॥ तत्र च स्थान-निषदनादिकरणे दोषान् दर्शयति
अहिगरणमंतराए, छेदण ऊसास अणहियासे अ ।
१-२ एतन्मध्यगतः पाठः भा० नास्ति ॥३ एतचिह्नगतः पाठः भा० नास्ति । “धम्मजागरियं णाम झाणं । काउस्सग्गो दुविधो-चेट्ठाए अभिभवे य ॥ एष सूत्रार्थः, अधुना नियुक्तिविस्तरः" इति चूर्णौ ॥ ४°नां करोति चतुर्लघु । तत्रा भा० ॥ ५ °षाः, आज्ञादिदोषनिष्पन्न पृथक् प्रायश्चित्तमिति भावः॥२३८४ ॥ कां० ॥ ६°नां पदानां मध्यात् तावदाद्यानि चत्वारि दकतीरमेव न भवन्ति, चरमाणि तु त्रीणि का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org