SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ६७२ सनियुक्ति-लघुमाप्य-वृत्तिके बृहत्कल्पसूत्रे [ चिलिमिलिकाप्र० सू० १८ लाउय असइ सिणेहो, ठाइ तहिं पुव्वभाविय कडाहो । सेहे व सोयवायी, धरंति देसि व ते पप्प ॥ २३६९ ॥ 'अलाबुपात्रकस्याभावे ग्लानार्थं च स्नेहे ग्रहीतव्ये पूर्वभावितं कटाहकं घटीमात्रकं वा ग्रहीतव्यम् । यतस्तत्र गृहीतः 'स्नेहः' घृतं 'तिष्ठति' न परिश्रवति । शैक्षो वा कश्चित् साधूनां 5मध्येऽत्यन्तं शौचवादी स शौचार्थ घटीमात्रकं गृह्णीयात् । 'देशी वा' देशविशेषं शौचवादिबहुलं प्राप्य घटीमात्रकं धारयन्ति, यथा गोल्लविषये ।। २३६९॥ अथास्यैव ग्रहणे विधिमाह गहणं तु अहागडए, तस्सऽसई होइ अप्पपरिकम्मे । तस्सऽसइ कुंडिगादी, घेत्तुं नाला विउजंति ॥ २३७० ॥ प्रथमतो यथाकृतस्य घटीमात्रकस्य ग्रहणं कर्त्तव्यम् । तस्यासत्यल्पपरिकर्मणि ग्रहणं भवति । 10 अथाल्पपरिकर्मापि न प्राप्यते ततः 'कुण्डिका' कमण्डलुम् आदिशब्दादपरमपि तथाविधं बहुपरिकर्मयोग्यं गृहीत्वा नालानि वियोज्यन्ते ॥ २३७० ॥ ॥ घटीमात्रकप्रकृतं समाप्तम् ॥ चि लि मि लि का प्रकृतम् सूत्रम्15 कप्पइ निग्गंथाण वा निग्गंथीण वा चेलचिलिमि लियं धारित्तए वा परिहरित्तए वा १८॥ अस्य सम्बन्धमाह सागारिपच्चयट्ठा, जह घडिमत्तो तहा चिलिमिली वि। रत्तिं व हेट्टऽणंतर, इमा उ जयणा उभयकाले ॥ २३७१ ॥ 20. सागारिकः-गृहस्थस्तस्य प्रत्ययार्थ यथा घटीमात्रकस्तथा चिलिमिलिकाऽपि धारयितव्या । यद्वा यदधस्तात् सूत्रं ततः 'अनन्तरैस्मिन्' अपावृतद्वारोपाश्रयसूत्रे रात्रौ चिलिमिलिकादिप्रदानलक्षणा यतना भणिता, 'इयं तु' प्रस्तुतसूत्रोपात्ता यतना अस्मिन् 'उभयकाले' रात्रौ दिवा च कर्त्तव्या इति ॥ २३७१ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या कल्पते निम्रन्थानां निर्ग्रन्थीनां वा चेलचिलिमिलिकां धारयितुं वा परिहतुं वा । एष सूत्रा25 क्षरार्थः ॥ अथ भाष्यविस्तरः १ देसं व भा० ता० ॥ २ अलाबुमात्रकमन्यदतिरिक्तं नास्ति ग्लाननिमित्तं च स्नेहो ग्रहीतव्यस्ततोऽलाबुकस्याभावे यत् पूर्वभावितं कटाहकं तत्र घृतं ग्रहीतव्यम् । यतस्तत्र गृहीतं सत् तद् घृतं तिष्ठति न परिश्रवति । शैक्षो वा कश्चित् साधूनां मध्येऽत्यन्तं शौचवादी घटीमात्रकं धारयेत् देशं वा शौचवादिनं प्राप्य घटीमात्रकं धारयति यथा गोल्लविषये ॥२३६९॥ गहणं भा० ॥ ३ रसूत्रे यतना भणि भा० ॥ ४ धारयितुं' स्वसत्तायां स्थापयितुं परिहत्तुं' परिभोक्तुं वा । एष कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy