________________
भाष्यगाथाः २३६३-६८] प्रथम उद्देशः ।
६७१ इत्याह-ग्लानकारणे समुत्पन्ने साधूनामपि घटीमात्रकग्रहणं भवेत् , अथवा शौचवादिषु शिष्येषु देशविशेषेषु वा । एतदुत्तरत्र भावयिष्यते ॥ २३६५॥ अथ किमर्थमत्र चतुर्लघु प्रायश्चित्तमुक्तम् ? अत्रोच्यते
दुविहपमाणतिरेगे, सुत्तादेसेण तेण लहुगा उ ।
मज्झिमगं पुण उवहि, पडुच्च मासो भवे लहुओ ॥ २३६६ ॥ द्विविधं-द्विप्रकारं गणना-प्रमाणभेदाद् यत् प्रमाणं ततोऽतिरिक्ते उपघौ सूत्रादेशेन चतुर्लघुका भवन्ति । यत उक्तं निशीथसूत्रे
जे भिक्खू गणणाइरित्तं वा पमामाइरित्तं वा उवहिं धरेइ से आवजइ चाउम्मासियं परिहारट्ठाणं उग्याइयं ( उ० १६ सू० ३९) इति । ' अतः सूत्रादेशेन चतुर्लघुकम् । यदा तूपधिनिष्पन्नं चिन्त्यते तदा अयं घटीमात्रको मध्य-10 मोपधिभेदेष्ववतरतीति कृत्वा मध्यमं पुनरुपछि प्रतीत्य लघुको मासो भवति ।। २३६६ ॥ अथ "धारयितुं वा परिहतुं वा" इति पदद्वयव्याख्यानमाह
धारणया उ अभोगो, परिहरणा तस्स होइ परिभोगो।।
दुविहेण वि सो कप्पइ, परिहारेणं तु परिभोत्तुं ॥ २३६७ ॥ इह द्विधा परिहारः, तद्यथा-धारणा परिहरणा च । तत्र धारणा 'अभोगः' अव्यापारणम् , 15 संयमोपबृंहणार्थ खसत्तायां स्थापनमित्यर्थः । परिहरणा नाम 'तस्य' घटीमात्रकादेरुपकरणस्य 'परिभोगः' व्यापारणम् । एतेन द्विविधेनापि परिहारेण स घटीमात्रको निर्ग्रन्थीनां परिभोक्तुं कल्पते । १ स च दिवसं यावत् पानकपूर्णस्तिष्ठति ॥ २३६७ ॥ अथ किमर्थमयं गृह्यते ? इत्याह--
उहाहो वोसिरणे, गिलाणआरोवणा य धरणम्मि ।
बिइयपयं असईए, भिन्नोऽवह अद्धलित्तो वा ।। २३६८ ॥ संयतीमिरुत्सर्गतो द्रव्यप्रतिबद्धायां वसतौ स्थातव्यम् । तत्र घटीमात्रैकाग्रहणे सागारिकाणां पश्यतां बहिः कायिकीव्युत्सर्जने 'उड्डाहः' प्रवचनलाघवमुपजायते । अथ कायिक्या वेगं धारयन्ति ततो धरणे 'ग्लानारोपणा' परिताप-महादुःखादिका भवति । » यत एवमतो ग्रहीतव्यो घटीमात्रकः संयतीभिः । द्वितीयपदमत्र- 'असति' अविद्यमाने घटीमात्रके यदि वा 25 विद्यते घटीमात्रकः परं 'भिन्नः' भन्नः अर्द्धलिप्तो वा अत एव 'अवहः' अव्याप्रियमाणः ततो बहिर्गत्वा कायिकी यतनया व्युत्सर्जनीया । निम्रन्थाः पुनरप्रतिबद्धोपाश्रये तिष्ठन्ति अतस्ते घटीमात्रकं न गृहन्ति, कारणे तु गृहन्त्यपि ॥ २३६८ ॥ यत आह१ भवेदपि, शौच त० डे० ॥ २ डे० विनाऽन्यत्र-षु शैक्षेषु मो० ॥ ३ एतन्मभ्यगतः पाठः भा० नास्ति ॥ ४°त्रकं न गृहन्ति तदा सागा भा० ॥ ५ एतदन्तर्गतः पाठः को० पुस्तक एव वर्तते ॥ ६ अलभ्यमाने भा०॥ ७°नः 'अवहो वा' अव्याप्रियमाणः 'अर्द्धलिसो वा' नाद्यापि परिपूणों लिप्तस्ततो बहिर्गत्वा कायिकी यतनया व्युत्सर्जनीयां ॥ २३६८ ॥ अथ साधूनां द्वितीयपदमाह भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org