________________
६७०
सनिर्युक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ घटीमात्रकप्रकृते सू० १७
अनेन सम्बन्धेनायातस्यास्य व्याख्या – कल्पते 'निर्ग्रन्थीनां ' त्रतिनीनामन्तर्लिप्तं 'घटीमात्रकं' घटीसंस्थानं मृन्मयभाजनविशेषं धारयितुं वा परिहर्त्तु वा । 'धारयितुं नाम' स्वसत्तायां स्थापयितुम् । 'परिहर्तुं' परिभोक्तम् । एष सूत्रार्थः ॥ अंथ निर्युक्तिः
घडिमचंतो लित्तं, निग्गंथीणं अगिण्हमाणीणं ।
चउगुरुगाऽऽयरियादि, तत्थ वि आणाइणो दोसा ।। २३६३ ॥ 'अन्तः' मध्ये 'लिप्तं' लेपेनोपदिग्धं घटीमात्रकं निर्मन्थीनामगृह्णतीनां चतुर्गुरुकाः । " आयरियाइ" ति आचार्य एतत् सूत्रं प्रवर्त्तिन्या न कथयति चतुर्गुरु, प्रवर्त्तिनी आर्यिकाणां न कथयति चतुर्गुरु, आर्यिका न प्रतिशृण्वन्ति मासलघु । ' तत्रापि' घटीमात्रकस्याग्रहणे द्विविप्रतिपादकस्य च प्रस्तुतसूत्रस्य अकथनेऽप्रतिश्रवणे चाज्ञादयो दोषाः ॥ २३६३ ॥
5
10
20
आह स घटीमात्रकः कीदृशो भवति ? इत्याह
'सः' इति घटीमात्रकः पानकेनात्यन्तभावितत्वादवश्यं न परिश्रवतीत्यपरिश्रावी, 'मसृणः' सुकुमारः, प्रकाशं प्रकटं वदनं मुखमस्येति प्रकाशवदनः, 'मृन्मयः' मृत्तिकानिष्पन्नः, 'लघुकः' 15 खल्पभारः, शुचि-पवित्रं चोक्षमित्यर्थः सितं श्वेतं न कृष्णवर्णाद्युपेतं दर्दरपिधानं - वस्त्रमयं बन्धनं यस्य स शुचि - सित-दर्दरपिधानः । एवंविधः 'अरहसि' प्रकाशप्रदेशे वसत्यां तिष्ठति ॥ २३६४ ॥
अपरिस्साई मसिणो, पगासवदणो स मिम्मओ लहुओ । सुइ- सिय- दद्दरपिहणो, चिट्ठह अरहम्मि वसहीए ॥ २३६४ ॥
सूत्रम् —
नो
at aaus निग्गंथाणं अंतो लित्तं घडिमत्तयं धारितए
वा परिहरितए वा १७ ॥
अस्य व्याख्या प्राग्वत् ॥ अत्र निर्युक्तिः
साहू गिण्हइ लहुगा, आणाइ विराहणा अणुवहिति ।
विइयं गिलाणकारण, साहूण वि सोअवादीसु ॥ २३६५ ।।
यदि साधुर्घटीमात्रकं गृह्णाति तदा चत्वारो लघुकाः, आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया । तत्र " अणुवहि" त्ति साधूनामयमुपधिर्न भवति । किमुक्तं भवति : - 25 यत् किल साधूनामुपकारे न व्याप्रियते तद् नोपकरणं किन्त्वधिकरणम्,
जं जुज्जइ उवयारे, उवगरणं तं सि होइ उवगरणं ।
अइरेगं अहिगरणं, (ओघनिर्युक्ति गा० ७४१ )
इति वचनाद्, यच्चाधिकरणं तत्र परिस्फुटैव संयमविराधना । आत्मविराधना त्वतिरिक्तो - पघिभारवहनादनागाढपरितापनादिकी । “बिइयं" ति द्वितीयपदमत्र भवति । किं पुनः तत् ?
१ अथ माष्यम् मा० कां० ॥ २ 44 एतन्मध्यगतः पाठः भा० त० डे० कां० नास्ति ॥ ३ अत्र भाष्यम् भा० कां० ॥ ४ का । अत्र द्वितीयपदं भवति - ग्लानकारणे साधूनां शौचदादिषु वा सागारिकेषु घटीमात्रकग्रहणं भवति । एतदुत्तरत्र कां० भा० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org