SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः २३५७-६२ ] प्रथम उद्देशः । ६६९ अहिषु श्वापदेषु प्रत्यर्थिषु च - प्रत्यनीकेषु द्वारेऽपिहिते सत्युपाश्रयं प्रविशत्सु प्रत्येकं चत्वारो गुरुकाः । ' शेषेषु' उमकादिषु सागारिकान्तेषु चतुर्लघुकाः । स्तेनेषु गुरुका लघुकाश्च भवन्ति । तत्र शरीरस्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लघुकाः । आज्ञादयश्च दोषाः । विराधना च द्विविधा – संयमविराधना आत्मविराधना च । तत्र संयमविराधना स्तेनैरुपधावपहृते तृणग्रहणमग्निसेवनं वा कुर्वन्ति, सागारिकादयो वा तप्तायोगोलकल्पाः प्रविष्टाः सन्तो निषदन शयनादि कुर्वाणा बहूनां प्राणजातीयानामुपमर्दं कुर्युः । आत्मविराधना तु प्रत्यनी कादिषु परिस्फुटैवेति ॥ २३६० ॥ आह ज्ञातमस्माभिर्द्वारपिधानकारणं परं काऽत्र यतना ? इति • नद्यापि वयं जानीमः, D. उच्यते उवओगं हेडुवरिं, काऊण ठर्वित वंगुरं अ । 10 पेहा जत्थ न सुज्झइ, पमजिउं तत्थ सारिंति ॥ २३६१ ॥ श्रोत्रादिभिरिन्द्रियैरधस्तादुपरि चोपयोगं कृत्वा द्वारं स्थगयन्ति वा अपावृण्वन्ति वा । यत्र चान्धकारे 'प्रेक्षा' चक्षुषा निरीक्षणं न शुध्यति तत्र रजोहरणेन दारुदण्डकेन वा रजन्यां प्रमृज्य 'सारयन्ति' द्वारं स्थगयन्तीत्यर्थः, उपलक्षणत्वादुद्घाटयन्तीत्यपि द्रष्टव्यम् ॥ २३६१ ॥ ॥ अपावृतद्वारोपाश्रयप्रकृतं समाप्तम् ॥ घटी मात्र क कृ त म् सूत्रम् - sues निग्गंथीणं अंतो लित्तं घडिमत्तयं धारित वा परिहरितए वा १६ ॥ अस्य सूत्रस्य सम्बन्धमाह ओहाडियचिलिमिलिए, दुक्खं बहुसो अहंति निंति विय । आरंभो घडिमत्ते, निसिं व वृत्तं इमं तु दिवा ॥। २३६२ ।। १ द्वारमस्थगयतां प्रत्ये° कां० ॥ २ एतन्मध्यगतः पाठः भा० नास्ति ॥ ३ क्षणमप्रकाशत्वान्न शुध्यति तत्र रजोहरणेन दारुदण्डकेन वा प्रमृज्य भा० ॥ ४ अवघाटिता-बद्धा चिलिमिली यत्र तद् अवघाटितचिलिमिलीकं तत्र मात्र भा० ॥ ५ पिहिते सति कां० ॥ ६ 'प्रवेशाः कर्त्तव्याः, ततो दुःखमार्थिका अतियान्ति निर्ग° कां० ॥ For Private & Personal Use Only Jain Education International 15 चिलिमिलिकया उपलक्षणत्वात् कटद्वयेन च 'अवघाटिते' पिनद्धे सति द्वारे रजन्यां मात्रकमन्तरेण बहिः कायिक्यादिव्युत्सर्जनार्थं बहुशो निर्गम-प्रवेशेषु दुःखमार्थिका निर्गच्छन्ति प्रविशन्ति च, अतोऽयं घटीमात्रकसूत्रस्यारम्भः । यद्वा 'निशायां' रात्रौ मात्रके यथा कायिकी व्युत्सृज्यते तथा अनन्तरसूत्रेऽर्थतः प्रोक्तम् इदं तु सूत्रं दिवा मात्रक विधिमधिकृत्यो- 25 च्यत इति ॥ २३६२ ॥ 20 www.jainelibrary.org
SR No.002512
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 03
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages364
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy