________________
६६८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [घटीमात्रकप्रकृते सू०१६ 'जिनाः' जिनकल्पिकास्तत् कार्यमनागतमेव जानन्ति येन द्वारं पिधीयते, तच्च प्रत्यनीकस्तेनादिकं वक्ष्यमाणलक्षणम् , तस्मिंश्च प्राप्तेऽपि 'तद्' द्वारपिधानं ते भगवन्तो न निषेवन्ते, निरपवादानुष्ठानपरत्वात् । 'स्थविरा अपि च' स्थविरकल्पिकाः सातिशयश्रुतज्ञानाधुपयोगबलेन केचिदनागतमेव जानन्ति, 'केचित् तु' निरतिशयाः प्राप्तमेव तत् कायें जानते, ज्ञात्वा च 6 यतनया तत् परिहरन्ति ॥ २३५६ ॥
अहवा जिणप्पमाणा, कारणसेवी अदोसवं होइ।
थेरा वि जाणग च्चिय, कारण जयणाए सेवंता ।। २३५७ ॥ अथवा "जिण जाणम" ति (गा० २३५५) नियुक्तिगाथापदमन्यथा व्याख्यायतेजिनः-तीर्थकरस्तस्य प्रामाण्यात् कारणे द्वारपिधानसेवी अदोषवान् भवति । जिनानां हि भग10वतामियमाज्ञा-कारणे यतनया द्वारपिधानं सेवमानाः स्थविरकल्पिका अपि 'ज्ञायका ऐव' सम्यग्विधिज्ञा एव ॥ २३५७ ॥ आह किं तत् कारणं येन द्वारं पिधीयते ? उच्यते
पडिणीय तेण सावय, उब्भामग गोण साणऽणप्पज्झे ।
सीयं च दुरधियासं, दीहा पक्खी व सागरिए ॥ २३५८ ॥ उद्घाटिते द्वारे प्रत्यनीकः प्रविश्याहननमपद्रावणं वा कुर्यात् । 'स्तेनाः' शरीरस्तेना उप16 घिस्तेना वा प्रविशेयुः । एवं 'श्वापदाः' सिंह-व्याघ्रादयः 'उद्भामकाः' पारदारिकाः 'गौः' बलीवर्दः 'श्वानः' प्रतीताः, एते वा प्रविशेयुः । “अणप्पज्झे" त्ति 'अनात्मवशः' क्षिप्तचित्तादिः स द्वारेऽपिहिते सति निर्गच्छेत् । शीतं वा दुरधिसहं हिमकणानुषक्तं निपतेत् । 'दीर्घा वा' सर्पाः 'पक्षिणो वा' काक-कपोतप्रभृतयः प्रविशेयुः । सागारिको वा कश्चित् प्रतिश्रयमुद्धाटद्वारं
दृष्ट्वा तत्र प्रविश्य शयीत वा विश्रामं वा गृहीयात् ॥ २३५८ ॥ 20 एक्ककम्मि उ ठाणे, चउरो मासा हवंति उग्घाया।
आणाइणो य दोसा, विराहणा संजमा-ऽऽयाए ॥ २३५९ ॥ द्वारमस्थगयतामनन्तरोक्ते 'एकैकस्मिन्' प्रत्यनीकप्रवेशादौ स्थाने चत्वारो मासाः 'उद्धाताः' लघवः प्रायश्चित्तं भवति, आज्ञादयश्चात्र दोषाः, विराधना च संयमा-ऽऽत्मविषया भावनीया
॥ २३५९ ॥ यदुक्तम् "चत्वारो मासा उद्धाताः" इति तदेतद् बाहुल्यमङ्गीकृत्य द्रष्टव्यम् , 25 अतोऽपवदन्नाह
अहि-सावय-पञ्चत्थिसु, गुरुगा सेसेसु हाँति चउलहुगा ।
तेणे गुरुगा लहुगा, आणाइ विराहणा दुविहा ॥ २३६०॥ १°का अधीतसातिशयश्रुतास्तत् का० ॥ २ त• डे. का. विनाऽन्यत्र-'ते' जिनकल्पिका न निषेवन्ते, निरपवादानुष्ठानपरत्वात् तेषां भगवताम् । 'स्थविरा भा०॥ ३त्ति पद मो. ले० विना ॥ ४°ति । कुतः? इत्याह-"थेरा वि" इत्यादि । जिनानां कां ॥
५एव ॥२३५७ ॥ अत्र शिष्यः पृच्छति-इच्छामो वयं तत् कारणं शातुं येन द्वारपिधानमासेव्यते, उच्यते भा०॥ ६ अनन्तरोक्ते एकैकस्मिन् स्थानेऽकारणे यदि द्वारं न स्थगयन्ति तदा चत्वारो कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org