________________
भाष्यगाथाः २३४९-५६] प्रथम उद्देशः ।
६६७ सूत्रम्
कप्पइ निग्गंथाणं अवंगुयदुवारिए उवस्सए वत्थए १५ ॥ कल्पते निर्ग्रन्थानामपावृतद्वारे उपाश्रये वस्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः
निग्गंथदारपिहणे, लहुओ मासो उ दोस आणादी।
__ अइगमणे निग्गमणे, संघट्टणमाइ पलिमंथो ॥ २३५३ ।। निर्ग्रन्था यदि द्वारपिधानं कुर्वन्ति ततो लघुको मासः प्रायश्चित्तम् , आज्ञादयश्च दोषाः । विराधना त्वियमू-कोऽपि साधुः 'अतिगमनं' प्रवेशं करोति, अन्येन च साधुना द्वारपिधानाय कपाटं प्रेरितम् , तेन च तस्य शिरसोऽभिघाते परितापादिका ग्लानारोपणा । एवं निर्गमनेऽपि केनचिद् बहिःस्थितेन पश्चान्मुखं कपाटे प्रेरिते शीर्ष भिधेत । तथा सजन्तूनां सट्टनम्, आदिशब्दात् परितापनमपद्रावणं वा द्वारे पिधीयमानेऽपात्रियमाणे वा भवेत् । 10 'परिमन्थश्च' सूत्रार्थव्याघातो भूयोभूयः पिदधतामपावृण्वतां च भवति ॥ २३५३ ॥ ऐनामेव नियुक्तिमाथां व्याख्यानयति
घरकोइलिया सप्पे, संचाराई य होति हिदुवरि ।
ढकित वंगुरिते, अमिघातो नित-इंताणं ॥ २३५४ ॥ द्वारस्साधस्तादुपरि वा गृहकोकिला वा सो वा 'सञ्चारिमा वा' कीटिका-कुन्यु कंसारि-15 कादयो जीवा भवेयुः, आदिशब्दात कोकिलादयो वा सम्पातिमसत्त्वाः, ततो द्वारं ढकयताम् 'अपावृण्वतां च' उद्घाटयतां "नित-इंताणं" ति निर्गच्छतां प्रविशतां वा गृहकोकिलादिवाण्यमिघातो भवेत् , सर्प-वृश्चिकादिमिर्वा साधूनामेवामिघातो भवेत् । द्वितीयपदे दारं पिदध्यादपि ॥ २३५४ ॥ कथम् ? इत्याह
सिय कारणे पिहिजा, जिण जाणग गच्छि इच्छिमो नाउं। 20
आमाढकारणम्मि उ, कप्पइ जयणाइ उठएउं ॥ २३५५ ॥ 'स्यात्' कदाचित् 'कारणे' पुष्टालम्बने पिदध्यादपि द्वारम् । "किं पुनस्तत् कारणम् ! इत्याह-» 'जिनाः' जिनकल्पिकाः 'ज्ञायकाः' तस्य कारणस्य सम्यग वेत्तारः परं द्वारं न पिदधति । शिष्यः प्राह-'गच्छे' गच्छवासिनामिच्छामो वयं विधि ज्ञातुम् । सूरिराहआगाढं-प्रत्यनीक-स्तेनादिरूपं यत् कारणं तत्र 'यतनया' वक्ष्यमाणलक्षणया गच्छवासिनां द्वारं 25 स्थगयितुं कल्पते । एष नियुक्तिगाथासमासार्थः ॥ २३५५ ॥ अथैनामेव विवृणोति
जाणंति जिणा कजं, पत्ते विउ तं न ते निसेवंति।
थेरा विउ जाणंती, अणागयं केइ पत्तं तु ॥ २३५६ ॥ १ मनं कुर्वतोऽपि केन का०॥ २ एतदेव व्याख्या भा० को० ॥ ३ °न्थुमकोटकाद भा० ॥ ४ एतचिह्नमध्यवर्ती पाठ का पुस्तक एवं वर्तते ।
५ सम्यग् वेदिनः परं ते द्वारपिधानं नासेवन्ते । “गच्छ"त्ति यो गच्छवासी स कारणे यतनया द्वारं पिदधाति । शिष्यः प्राह-इच्छामो वयं कारणं हातुम् । सूरिराहआगाढं-प्रत्यनीक-स्तेनादिरूपं यत् कारणं तत्र यतनया स्थगयितुं कल्पते । एष संप्रहगाथासमासार्थः भा०॥
६ पत्तं पिउ ता.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org