________________
भाष्यगाथाः २३६९-७५ ]
प्रथम उद्देशः ।
धारणया उ अभोगो, परिहरणा तस्स होइ परिभोगो । चेलं तु पहाणारं, तो गहणं तस्स नऽन्नासि ।। २३७२ ।।
धारणता नाम 'अभोगः' अव्यापारणम्, परिहरणा तु 'तस्य' चिलिमिलिका ख्यस्योपकरणस्य 'परिभोगः' व्यापारणमुच्यते । आह वस्त्र - रज्जु -कट वल्क- दण्डभेदात् पञ्चविधा चिलिमिलि का वक्ष्यते तत् कथं सूत्रे चेलचिलिमिलिकाया एव ग्रहणम् ? इत्याह- 'चेलं तु' वस्त्रं रज्वादीनां 5 मध्ये बहुतरोपयोगित्वात् प्रधानतरं ततस्तस्यैव सूत्रे ग्रहणं कृतम्, न 'अन्यासां' रज्जु चिलिमिलि - कादीनाम् || २३७२ || अथ चिलिमिलिकाया एव भेदादिस्वरूपनिरूपणाय द्वारगाथामाह - भेदो य परूवणया, दुविहपमाणं च चिलिमिलीणं तु ।
----
उपभोगो उ दुपक्खे, अगहणऽधरणे य लहु दोसा ।। २३७३ ॥ प्रथमतश्चिलिमिलीनां भेदो वक्तव्यः । ततस्तासामेव प्ररूपणा कर्त्तव्या । ततो द्विविधप्र - 10 माणं गणना- प्रमाणभेदात् चिलिमिलिकानामभिधातव्यम् । ततश्चिलिमिलिकाविषय उपभोगः 'द्विपक्षे' संयत-संयतीपक्षद्वयस्य वक्तव्यः । चिलिमिलिकाया अग्रहणेऽधारणे च चतुर्लघुकाः प्रायश्चित्तम्, दोषाश्चाज्ञादयो भवन्ति । एष द्वारगाथासङ्क्षेपार्थः || २३७३ ॥
अथैनामेव प्रतिद्वारं विवरीषुराह -
सुत्तमई रजुमई, बागमई दंड - कडगमयई य । [ नि. ६५१-५८] पंचविह चिलिमिली पुण, उवग्गहकरी भवे गच्छे ॥ २३७४ ॥ सूत्रमयी रज्जुमयी वल्कमयी दण्डकमयी कटकमयी चेति पञ्चविधा चिलिमिली । एषा पुनः 'गच्छे' गच्छ्वासिनामुपग्रहकरी भवति ।। २३७४ ॥
६७३
उक्त भेदः । अथ प्ररूपणा क्रियते - सूत्रस्य विकारः सूत्रमयी, सा च वस्त्रमयी वा कम्बलमयी वा प्रतिपत्तव्या । रज्जोर्विकारो रज्जुमयी, ऊर्णादिमयो दवरक इत्यर्थः । वल्कं नाम - 20 शणादिवृक्षत्वग्रूपम्, तेन निर्वृत्ता वल्कमयी । दण्डकः - वंश - वेत्रादिमयी यष्टिस्तैर्निर्वृता दण्डकमयी । कटः - वंशकटादि:, तन्निष्पन्ना कटकमयी ॥ गता प्ररूपणा । अथस्याः पञ्चविधाया अपि चिलिमिलिकाया यथाक्रमं गाथात्रयेण द्विविधप्रमाणमाह-
हत्थपणगं तु दीहा, तिहत्थ रुंदोनिया असइ खोमा । एत पमाण गणणेकमेक गच्छं व जा वेढे ।। २३७५ ।।
प्रमाण - गणनाभेदाद् द्विविधं प्रमाणम् । तत्र प्रमाणप्रमाणमाश्रित्य सूत्रमयी चिलिमिलिका हस्तपञ्चकं दीर्घा त्रीन् हस्तान् 'रुन्दा' विस्तीर्णा भवति । एषा चोत्सर्गतस्तावदौर्णिकी । और्णिक्याः ‘असति' अलाभे क्षौमिकी ग्रहीतव्या । वल्कचिलिमिलिकाया अप्येतदेव प्रमाणम् । गणनाप्रमाणं पुनरधिकृत्यैकैकस्य साधोरेकैका यावत्यो वा गच्छं वेष्टयन्ति तावत्यो भवन्ति ।
Jain Education International
"
१ 'यस्योपग्रहकोपक भा० ॥ २. कडगमई वाग- दंडगमई य ता० ॥
३ एतन्मध्यगतः पाठः भा० नास्ति ॥ ४ थासामेव पञ्चानामपि यथाक्रमं कां ॥ ५ का भवति । अथवा यावत्यो गच्छं सकलमपि वेष्टयन्ति तावत्यो गृह्यन्ते, न प्रत्येकमेकैकस्या ग्रहणनियम इति । यद्वा "गच्छं व जा वेढे" त्ति या प्रातिहारिकी भा० ॥
For Private & Personal Use Only
15
25
www.jainelibrary.org