________________
10
भाष्यगाथाः २३४१-४८] प्रथम उद्देशः ।
६६५ स्तेनोपधिस्तनभेदास्तत्रागच्छेयुः, ते संयतीमुपधिं वा अपहरेयुः, मैथुनार्थिनो वा संयतीमुपसर्गयेयुः । देहेन-शरीरेण धृत्या च-मानसावष्टम्भेन दुर्बलास्ता अतः संयत्यः कालं 'न जाग्रति' न प्रतिचरन्तीति ॥ २३४४ ॥ किच
कम्मेहि मोहियाणं, अभिवंताण को ति जा भणइ ।
संकापदं व होजा, सागारिअ तेणए वा वि ॥ २३४५॥ 5 यदि रात्रौ 'कर्मभिर्मोहिताः' घनकर्मकर्कशतया समुदीर्णमोहाः केचन पापीयांसः संयतीः शीलात् च्यावयितुमभिद्रवेयुस्ततः को विधिः ? इति अत आह-तेषामभिद्रवतां या संयती 'कोऽयम् ?' इति ब्रूते तस्याश्चतुर्गुरुकाः प्रायश्चित्तम्, आज्ञादयश्च दोषाः, शङ्कापदं वा सागारिकस्य स्तेनकस्य वा, अपिशब्दाद् मैथुनार्थिनो वा भवेत् ।। २३४५ ॥ इदमेव भावयति
अन्नो वि नूणमभिपडइ इत्थ वीसत्थया तदट्ठीणं ।
सागारि सेज्झगा वा, सइत्थिगाओ व संकेजा ।। २३४६ ॥ तदर्थिनो नाम तद्-विवक्षितं स्तन्यं मैथुनं वा सेवितुं ये समायातास्तेषां संयतीमुखात् 'कः ?' इति वचनं श्रुत्वा शङ्कापदमुपजायते-नूनमन्योऽपि कश्चिदत्रोद्भामकः स्तेनो वाऽभिपतति येनैवमेषा 'कः ?' इति प्रश्नयति । ततश्च तेषां तत्र प्रविशतां विश्वस्तता भवति-न भयमुत्पद्यते । यस्तु 'सागारिकः' शय्यातरः "सेज्झगा वा" प्रतिवेश्मिकास्ते एकका वा 15 सस्त्रीका वा शङ्कां कुर्युः-किं मन्ये एतासां संयतीनां दत्तसङ्केतः कोऽप्युद्धामकोऽत्रायाति ॥ २३४६ ॥
तेणियरं व सगारो, गिण्हे मारेज सो व सागरियं ।
पडिसेहे छोभ झामण, काहिंति पदोसतो जं च ।। २३४७॥ अथवा 'कः ?' इति वचनं श्रुत्वा सागारिक उत्थाय स्तेनम् ‘इतरं वा' मैथुनार्थिनं गृह्णी-20 याद् मारयेद्वा, 'स वा' म्तेनो मैथुनार्थी वा सागारिकं मारयेत् । सागारिके च मारिते सति तदीयाः संज्ञातकाः 'प्रतिषेधं तद्रव्या-ऽन्यद्रव्यव्यवच्छेदं कुयुः । स्तेनादयः शय्यातरेण गृहीताः सन्तः संयतीनां "छोभं" ति अभ्याख्यानं दद्युः--अस्माकं भाटिरेताभिर्गृहीता आसीत् । "झामण" त्ति प्रद्विष्टा वा सन्तः शय्यातरगृहं संयतीनां वा प्रतिश्रयं प्रदीपयेयुः । प्रद्वेषतो वा यदन्यदपि ते करिष्यन्ति तन्निप्पन्नमापद्यते । तस्मात् 'कः ?' इति न वक्तव्यम् ॥२३४७।। 25 कथं पुनस्तर्हि वक्तव्यम् ? इत्याह--
संकियमसंकियं वा, उभयट्टि नच बेंति अहिलिंतं ।
छु त्ति हडि त्ति अणाहा!, नत्थि ते माया पिया वा वि ॥ २३४८॥ उभयं-स्तैन्यं मैथुनं च तदर्थिनं शङ्कितमशङ्कितं वा 'ज्ञात्वा' अवगम्य 'अभिलीयमानम्' आयान्तमेवं ब्रुवते-"छु त्ति हडि ति" अनुकरणशब्दावेतौ, छुछुरिति वा हडिरिति वा 30 १ केचिदभिवेयुः तेषामभिद्र भा० ॥२°ह खेत्त झा ता० ॥ ३ ते तदीयसंज्ञा त० डे० ॥ ४ र्युः । “छोभ"त्ति इतरे शय्यातरेण गृहीताः संयतीनामभ्याख्यानं भा०॥ ५सय एतदन्तर्गतः पाठः भा० त० डे० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org