________________
३१०
सनिर्युक्ति-लघुभाप्य वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १
य-चतुर्धयोर्भङ्गयोः परीत्ते अनन्ते च अजीवत्वे तुल्येऽपि कस्माद् अनन्ते गुरुमासः परीत्ते लघुमासो दीयते ? कस्माच्चाचेतने द्रव्ये परीत्तेऽनन्ते वा जीवोपघातं विनाऽपि प्रायश्चित्तं दीयते ? | अपरं च राग-द्वेषवन्तो भवन्तः, यदचेतने परीत्ते मासलघु अनन्तेऽचेतनेऽपि मासगुरु प्रयच्छत ॥ ९८६ ॥ तत्र यत् तावद् नोदितम् " कस्मात् परीत्ते मासलघु अनन्ते मासगुरु ?” तद्वि5 षयं समाधानमाह
साऊ जिणपडिकुट्टो, अनंतजीवाण गायनिप्पन्नो ।
ही पसंगदोसा, अनंतकाए अतो गुरुगो ।। ९८७ ॥
परीत्ताद् अनन्तकायः खादुः स्वादुतरः । तथा जिनैः - तीर्थकरैः प्रतिकुष्टः, 'कारणेऽपि परीत्तं ग्रहीतव्यं नानन्तम्' इति जिनोपदेशात् । अनन्तानां च जीवानां गात्रेण स निष्पन्नः । सुखादु10 त्वाच्चाधिकतरा तत्र गृद्धिर्भवति । तस्याश्च प्रसङ्गेनानेषणीयमपि गृह्णीयादित्यादयो बहवो दोषाः, अतोऽनन्तकायेऽचित्तेऽपि गुरुको मासः प्रायश्चित्तम् । एवं च द्रव्यानुरूपं प्रायश्चित्तं ददतामस्माकं राग-द्वेषावपि दूरापास्तप्रसराविति ॥ ९८७ ॥
योक्तम् " कस्मादचित्ते प्रायश्चित्तं प्रयच्छत ?” ( गा० ९८६ ) इति तत्रापि समाधीयतेअनवस्थाप्रसङ्गनिवारणार्थं सजीवग्रहणपरिहारार्थं चाचित्तेऽपि प्रायश्चित्तप्रदानमुपपन्नमेव । तथा 15 चात्राचार्या इक्षुकरणदृष्टान्तमुपदर्शयन्ति
नविखाइयं न विवई, न गोण-पहियाइए निवारेइ ।
इति करणभई छिन्नो, विवरीय पसत्थुवणओ य ॥ ९८८ ॥
-
एगेण कुटुंबिणा उच्छुकरणं रोवियं । तस्स परिपेरंतेण तेण न वि खाइया कया, न वि वईए फलिहियं, न वि गोणाई निवारेइ, नावि पहिए खायंते वारेइ । ताहें तेहिं गोणाईहिं अवारि20 ज्जमाणेहिं तं सर्व्वं उच्छाइयं । एवंकरितो सो कम्मकराण भईए छिन्नो । जं च पराययं खेत्तं वाचिंतेणं वृत्तं 'एत्तियं ते दाहं' ति तं पि दायवं । एवं सो उच्छुकरणे विणट्टे मूलच्छिन्ने जं जस्स देयं तं अदेतो बद्धो विणट्टो य । एस अप्पसत्थो ||
1
अवि उच्छुकरणं कयं । सो विवरीओ भाणियो । खाइयादि सवं कयं । जे य गोणाई पतित तहा उत्रासयति जहा अन्ने वि न दुक्कंति । एस पसत्थो ||
अथाक्षरार्थः——कश्चित् कुटुम्बी इक्षुकरणं रोपयित्वा नापि खातिकां नापि वृतिं कृतवान्, न या गो-पथकादान् खादतो निवारयति । 'इति' एवं कुर्वन् इक्षुकरणस्य सम्बन्धिनी या भृतिः - कर्मकरादिदेयं द्रव्यं तया 'छिन्नः ' त्रुटितः सन् विनष्टः । एतद्विपरीतश्च प्रशस्तदृष्टान्तो वक्तव्यः । उपनयश्च द्वयोरप दृष्टान्तयोर्भवति ॥ ९८८ ॥ स चायम्
को दोसों दोहिं भिन्ने, पसंगदोसेण अणरुई भत्ते । भिन्नाभिन्नग्गहणे, न तरइ सजिए वि परिहरिउं ॥ ९८९ ॥
कश्चिद निर्धर्मा प्रलम्बानि ग्रहीतुकामः “ को दोषः स्यात् 'द्वाभ्यां' द्रव्य-भावाभ्यां भिन्ने प्रलम्बे गृह्यमाणे ?" इति परिभाव्य द्रव्य-भावभिन्नानि प्रलम्बान्यानीतवान् । यदि च तस्य प्रायश्चित्तं न दीयते तदा स निर्विशङ्कं भूयो भूयस्तानि गृह्णाति । ततश्च लब्धप्रलम्बरसास्वादस्य प्रसङ्गदोषेण
25
30