SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ९८०-८६] प्रथम उद्देशः । तु रागः, कारणं प्राग्वदेव । किञ्च युप्माकमेवं 'बहुधाते' युगपद बहूनां मुखे प्रक्षिप्य भक्षणे एकमेव मासिकं [प्रायश्चित्तं] ददतां निर्दयता भवति ॥९८२ ॥ अथ राग-द्वेषाभावं समर्थयन् सूरिः परिहारमाह चोयग! नियतं चिय, णेच्छंता विडसणं पि नेच्छामो । निव मिच्छ छगल सुरकुड, मता-ऽमताऽऽलिंप भक्खणता ॥ ९८३ ।। । हे नोदक! निर्दयतामेवानिच्छन्तो वयं विदशनमपि नेच्छामः, विविधं दशनं-भक्षणं विदशनं लीला इत्यर्थः । अत्र चाचार्या म्लेच्छयदृष्टान्तं वर्णयन्ति जहा एगस्स रन्नो दो मिच्छा ओलग्गगा । तेण रन्ना तेसिं मिच्छाणं तुट्टेण दो सुरकुडा दो य छगला दिन्ना। ते तेहिं गहिया । तत्थ एगेणं छगलो एगप्पहारेणं मारितूण खइओ दोहिं तिहिं वा दिणेहिं । बितिओ एक्केकं अंग छेत्तुं खायति, तं पि सो छेदथामं लोणेणं आसुरीहिं वा छग-10 णेण वा लिंपइ । एवं तस्स छगलस्स जीवंतम्सेव गाताणि छेत्तुं खइयाणि, मतो य । पढमस्स एगप्पहारेण एको वधो । बितियस्स जत्तिएहिं छेदेहिं मरति तत्तिया वधा, लोगे य पावो गणिज्जति । एवं जेण पलंबस्स एक्को पक्खेवो कओ तस्स एक्कं मासियं, जो विडसंतो खायति तस्स तत्तिया पच्छित्ता, घणचिक्कणाए य पारितावणियाए किरियाए वति । विडसणा णाम आसादेंतो थोवं थोवं खायइ ॥ 15 ___ अत एवाह-"निव मेच्छ” इत्यादि । कस्यचिद नृपस्य द्वौ म्लेच्छाववलगको । तेन तुष्ठेन तयोः छगलको सुराकुटौ च दत्तौ । तत्रैकेन च्छगलकस्य मृतस्य द्वितीयेन पुनरमृतस्यैवैकैकमङ्गं छित्त्वा लवणादिभिरालिम्प्य भक्षणं कृतमिति ।। ९८३ ॥ किञ्च अचित्ते वि विडसणा, पडिसिद्धा किमु सचेयणे दव्वे । कारणे पक्खेवम्मि उ, पढमो तइओ अ जयणाए । ९८४॥ 20 अचित्तेऽपि द्रव्ये विदशना प्रतिषिद्धा किं पुनः सचेतने द्रव्ये ?, सचित्तं प्रलम्ब सुतरां विदशनया न भक्षणीयमिति भावः । यत्र पुनः कारणे सचित्तं मुखे प्रक्षिपति तत्रापि 'प्रथमभङ्गः' एकग्रहणैकप्रक्षेपरूपः 'तृतीयभङ्गश्च' अनेकग्रहणैकप्रक्षेपरूपो यतनया सेवितव्यः ॥ ९८४ ॥ अथानन्तकायस्य वर्जनेति द्वारम् । तत्र प्रथमतो द्वारगाथामाह पायच्छित्ते पुच्छा, उच्छुकरण महिड्ढि दारु थली य दिलुतो। 25 चउत्थपदं च विकडुभं पलिमंथो चेवऽणाइन्नं ।। ९८५ ॥ प्रथमं प्रायश्चित्ते पृच्छा कर्त्तव्या । ततः 'इक्षुकरणेन' इक्षुवाटेन 'महर्द्धिकेन' राज्ञा "दारु" त्ति दारुभारेण 'स्थल्या च' देवद्रोण्या दृष्टान्तः कर्त्तव्यः । चतुर्थं च-द्रव्यतोऽपि भावतोऽपि भिन्नमिति यत् पदं तत्र त्रीणि द्वाराणि-विकटुभं परिमन्थः अनाचीर्णमिति समासार्थः ॥९८५॥ अथ विस्तरार्थमाह 30 चोएइ अजीवत्ते, तुल्ले कीस गुरुगो अणंतम्मि । कीस य अचेयणम्मी, पच्छित्तं दिजए दव्वे ॥ ९८६ ॥ शिष्यो नोदयति-भावतो भिन्नं द्रव्यतोऽभिन्नं भावतो भिन्नं द्रव्यतोऽपि भिन्नमिति तृती
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy