SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 5 ३०८ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ प्रलम्बाधिकारे सूत्रम् १ ष्ठन्ते किन्तु प्रहरादर्वागेवाचित्तीभवन्ति । 'मुद्गरकाणि' मगदन्तिकापुष्पाणि यूथिकापुष्पाणि चोप्णयोनिकत्वाद् उप्णे क्षिप्तानि चिरमपि कालं भवन्ति, सचित्तान्येव तिष्ठन्तीति भावः ॥ ९७८ ॥ मदन्तिकाप्पाणि उदके क्षिप्तानि 'यामं' प्रहरमपि न प्रियन्ते । उत्पल - पद्मानि पुनरुदके क्षिप्तानि चिरमपि भवन्ति, उदकयोनिकत्वात् ॥ ९७९ ॥ गतं कालतो लक्षणम् । अथ भावत आह— पत्ताणं पुप्फाणं, सरडुफलाणं तहेव हरियाणं । विटम्मि मिलाणम्मी, नायव्वं जीवविप्पजनं ॥ ९८० ॥ पत्राणां पुष्पाणां 'सैरडुफलानाम्' अबद्धास्थिकफलानां तथैव 'हरितानां' वास्तुलादीनां सामान्यतस्तरुणवनस्पतीनां वा ‘वृन्ते' मूलनाले म्लाने सति ज्ञातव्यम्, यथा – जीवविप्रमुक्तमेतत् 10 पत्रादिकम् ॥ ९८० ॥ उक्तं भावतोऽपि लक्षणम् । तदुक्तौ च समर्थितं चतुर्विधज्ञानद्वारम् । अथ ग्रहणद्वारमाह 25 चउमंगों गहण पक्खेवए अ एगम्मि मासियं लहुयं । गणे पक्खेवम्मि, होंति अणेगा अणेगेसु ।। ९८१ ।। चतुर्भङ्गी ग्रहणे प्रक्षेपके च द्रष्टव्या । तद्यथा - एकं ग्रहणं एकः प्रक्षेपकः १ एकं ग्रहणम15 नेके प्रक्षेपकाः २ अनेकानि ग्रहणानि एकः प्रक्षेपकः ३ अनेकानि ग्रहणानि अनेके प्रक्षेपकाः ४ । अत्र च हस्तेन यत् प्रलम्बानामादानं तद् ग्रहणम्, यत् पुनर्मुखे प्रवेशनं स प्रक्षेपकः । तत्र प्रथमभङ्गे एकस्मिन् ग्रहणे प्रक्षेपके च प्रत्येकं मासलघु । द्वितीयभङ्गे एकस्मिन् ग्रहणे मासलघु, प्रक्षेपस्थाने यावतः प्रक्षेपकान् करोति तावन्ति मासलघूनि । तृतीयभङ्गे तु यावन्ति ग्रहणानि तावन्ति मासलघुकानि, प्रक्षेपविषयस्त्वेको लघुमासः । चतुर्थभङ्गेऽनेकेषु ग्रहणेप्यनेकेषु प्रक्षेप20 केषु चानेकान्येव मासलघुकानि । एतच्चासामाचारीनिप्पन्नं मन्तव्यम् । यत् पुनर्जीवघातनिप्पन्नं चतुर्लघुकादिकं तत् स्थितमेव । एतच्च ग्रहण - प्रक्षेपकनिप्पन्नं प्रायश्चित्तं यथा केवली जानाति तथा गीतार्थोऽपीति ॥ ९८१ ॥ गतं ग्रहणद्वारम् । अथ तुल्ये राग-द्वेषाभाव इति द्वारम् । तत्र शिष्यः प्राह पडिसिद्धा खलु लीला, विइए चरिमे य तुल्लदव्वेसु । नियता विहु एवं, बहुधाए एगपच्छितं ।। ९८२ ॥ अहो ! भगवन्तो राग-द्वेषाध्यासितमनसः । तथाहि —– 'तुल्यद्रव्येषु' समानेऽपि प्रलम्बद्रव्याणां जीवत्वे इत्यर्थः द्वितीयभङ्गे एकफलस्य चरमभङ्गे तु बहूनां फलानां बहून् वारान् प्रक्षेपं करोतीति बहूनि मासिकानि दत्थ, तृतीयभङ्गे तु बहूनि वनफलानि गृहीत्वा छित्त्वा वा एकः प्रक्षेपक इति कृत्वैकं मासिकं ददध्वे, तद् मम मनसि प्रतिभासते नूनं लीलयैव युष्माभिः प्रतिषिद्धा न 30 पुनर्जीवोपघातः । एवं च भगवतां द्वितीयभङ्गे प्रलम्बजीवानामुपरि रागो बहुमासिकदानात् तृती - यभङ्गे तु द्वेषः एकस्यैव मासिकस्य दानात्; यद्वा द्वितीयभङ्गे गृह्णतां शिष्याणामुपरि द्वेषः, तृतीये १ मो० ले० विनाऽन्यत्र - 'वन्तीति ॥ गतं भा० । 'वन्ति ॥ गतं त० डे० कां• ॥ २ " सरडुफलाणि णाम जाणि आमयाणि तरुणगाणि अवद्धद्विगाणि” इति चूर्णौ ॥ ३' कानि मा० भा० ॥ ४ तु यद् व° भा० ॥
SR No.002511
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages400
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy